सदास्माकं हि चित्तेषु , दयस्व शुद्धता नेया |
प्रभो ! आयातु नो ध्याने, वसतु नेत्रेषु अस्माकम्
तमोयुक्तेषु हृदयेषु, परा आभासमादेया |
प्रवाह्य ज्ञानगङ्गां च, हृदित्वं स्नेहसिन्धु च
मिथः सम्मिल्य वासस्य, प्रभो शिक्षा सदा देया |
सदा नः धर्मसेवा स्यात्, सदा नः कर्म सेवा स्यात्
सदा शीलं हि सेवा स्यात्, परा निष्ठा समादेया |
भवेन्मे जीवनं भगवन्, तथा मरणं हि देशाय
तदर्थं जीवनत्याग:, प्रभो शिक्षा इयं देया ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें