लोकप्रिय पोस्ट

बुधवार, 25 दिसंबर 2019

हास्यकणिका

         १.    एकदा उपाहारगृहे उपविश्य चायं पिबन्नासम्। तदानीम् एका सुन्दरी तरुणी मम समीपम् आगत्य अपृच्छत्।। 

         #_Are_you_Single_!?  👩

        आम् आम् इति झटिति सोत्साहं प्रत्युत्तरं दत्तवान्।। 

        मन्निकटस्थम् आसन्दं नीत्वा सा अन्यत्र गतवती!!  

        कथा समाप्ता!!

       २.   हास्य_कणिका।

आरक्षकः- (बन्दीपालम् उद्दिश्य) श्रीमन्! एका महती समस्या अभवत्! 

बन्दीपालः- किम् अभवत्? 

आरक्षकः- कारागारे ये अपराधिनः आसन् ते सर्वे मिलित्वा ह्यः रामायणस्य नाटकं कृतवन्तः आसन्! 

बन्दीपाल:- अस्तु समीचीनम्! परन्तु तत्र का समस्या? 

आरक्षकः- श्रीमन्! लक्ष्मणस्य प्राणान् रक्षणाय औषधम् आनेतुं यः हिमालयं गतवान् आसीत् सः अधुनापि न प्रत्यागतवान्।

बन्दीपाल:- किम्? कुत्र गतः स अपराधी? शीघ्रं गत्वा तम् आनयतु!


     ३. शिक्षकः - पृथिव्याः अक्षरेखा एका काल्पनिकी रेखा । तत्र वस्त्राणि प्रसारयितुं न शक्यन्ते इति जानन्ति वा भवन्तः ?
एकः छात्रः- परन्तु महोदय !तत्र काल्पनिकानि वस्त्राणि तु प्रसारयितुं शक्यानि एव ननु ? 

     ४. वैद्यः - भवतः कर्णयोः चिकित्सा मया अतीव सम्यक्तया कृता अस्ति । इदानीं भवान् सम्यक् रूपेण श्रोतुं शक्नोति, अत्र न कापि समस्या ।
रोगी- वैद्यमहोदय ! भवान् माम् उद्दिश्य इदानीं किमपि उक्तवान् किम् ? 

      ५. वस्तु विक्रेता - गृहस्वामी गृहे अस्ति वा ?
तद्गृहस्य बालः- अहं दुःखितः, पिता गृहे नास्ति ।
वस्तुविक्रेता - परन्तु त्वं किमर्थं दुःखितः ?
बालः - कारणम्, असत्यं वचनं मह्यं न रोचते । इति ।