७. बुद्धिर्यस्य बलं तस्य
एकस्मिन् वने एकः सिंहः वसति स्म । सः नित्यम् एकं पशुं खादति स्म । एकदा सिंहः अति क्षुधितः भवति । एकः शशकः तत्र आगच्छति । सः चतुरः भवति । सिंहः शशकं पश्यति । सः भीतः विलापं करोति । सिंहः तं पृच्छति-"त्वं कथं विलपसि" ?शशकः वदति-"महाराज ! वने एकः अन्यः सिंहः अस्ति । सः मम पुत्रान् खादति ।सिंहः कथयति-"कुत्र अस्ति सः अन्यः सिंहः" ?शशकः-"समीपे एकः कूपः अस्ति । सः तस्मिन् निवसति ।"क्रुद्धः सिंहः कथयति-"अहं तत्र गत्वा पश्यामि ।"शशक: वदति-"आगच्छतु,आगच्छतु ।" शशकः तं सिंहं कूपसमीपं नयति । सिंहः कूपस्य जले प्रतिबिम्बं पश्यति । सः कूपे कूर्दते म्रियते च ।शशकः स्वबुद्धिबलेन आत्मरक्षां करोति । सत्यम् इदं यत्- "बुद्धिर्यस्य बलं तस्य, निर्बुद्धेस्तु कुतो बलम् ।"
८. तत् कथं करोमि ?
वैद्यः -भवतः अस्वास्थ्यस्य कारणं मशकाः एव । भवान् एतत् लेप्यं लेपयतु । मशकाः भवन्तं न पीडयन्ति ।
सोमः -परन्तु वैद्यमहोदय ! कथं मशकं गृहीत्वा तदुपरि एतद् लेपयामि इत्येव चिन्ता मम...।
९. इच्छा नास्ति..
कश्चन नवयुवकः पत्नीम् उक्तवान्- "अयि प्रिये! अद्य आवाम् उपाहारमन्दिरे भोजनं कुर्वः।
पत्नी- किमर्थम्....?
मम पाकस्य रुचिः सम्यक् न भवति वा ?
पतिः- (मन्दध्वनिना) न..न,रुचिः तु सम्यक् एव भवति।
किन्तु अद्य अतीव श्रान्तः अस्मि।
अतः पात्रप्रक्षालने मम इच्छा नास्ति ।
१०. शिक्षकः - वास्तवभ्रमयोः एकैकम् उदाहरणं वदतु रमेश ।रमेशः - भवान् पाठयन् अस्ति इत्येतत् वास्तवम् । वयं श्रृण्वन्तः स्मः इत्येषः भ्रमः ।
शिक्षकः - ! ! !
११. पत्नी - आर्यपुत्र ! भवान शतं वर्षाणि सुखेन सन्तोषेण च जीवेत् । तदर्थम् अहं व्रताचरणं कर्तुम् इच्छामि ।वदतु, अहं किं व्रतम् आचराणि ?
पतिः - भवती मौनव्रतम् आचरतु, पर्याप्तम् । ततः अहं सार्धैकशतं वर्षाणि जीविष्यामि आनन्देन ।
१२.
१३.
१४.
१५.
१६.
१७.
१८.
१९.
२०.
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें