शूरा वयम्

शूरा वयम्

शूरा वयं धीरा वयं वीरा वयं सुतराम् 
गुणशालिनो बलशालिनो जयगामिनो नितराम् ।।

दृढमानसा गतलालसाः प्रियसाहसाः सततम् 
जनसेवका अतिभावुकाः शुभचिन्तका नियतम् ।। १ ।।

धनकामना सुखवासना न च वञ्चना हृदये 
ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये ।। २ ।।

गतभीतयो धृतनीतयो दृढशक्तयो निखिलाः 
यामो वयं समराङ्गणं विजयार्थिनो बालाः ।। ३ ।।

जगदीश हे परमेश हे सकलेश हे भगवन् 
जयमङ्गलं परमोज्ज्वलं नो देहि परमात्मन् ।। ४ ।

टिप्पणियाँ