लोकप्रिय पोस्ट

संस्कृत गीतम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
संस्कृत गीतम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

मंगलवार, 15 अगस्त 2023

चटका, चटका, रे चटका

चटका चटका
चटका, चटका, रे चटका
चिँव्, चिँव् कूजसि त्वं विहगा ||

नीडे निवससि सुखेन डयसे
खादसि फलानि मधुराणि ।
विहरसि विमले विपुले गगने
नास्ति जनः खलु वारयिता ॥

चटका, चटका, रे चटका
चिँव्, चिँव् कूजसि त्वं विहगा ||

मातापिरौ इह मम न स्तः
एकाकी खलु खिन्नोऽहम् ।
एहि समीपं चिँव् चिँव् मित्र
ददामि तुभ्यं बहुधान्यम् ॥

चटका, चटका, रे चटका
चिँव्, चिँव् कूजसि त्वं विहगा ||

चणकं स्वीकुरु पिब रे नीरं
त्वं पुनरपि रट चिँव् चिँव् चिँव् ।
तोषय मां कुरु मधुरालापं
पाठय मामपि तव भाषाम् ॥

चटका, चटका, रे चटका
चिँव्, चिँव् कूजसि त्वं विहगा ||


रविवार, 6 अगस्त 2023

सरससुबोधा विश्वमनोज्ञा

सरससुबोधा विश्वमनोज्ञा

ललिता हृद्या रमणीया।

अमृतवाणी संस्कृतभाषा

       नैव क्लिष्टा न च कठिना॥    ॥नैव क्लिष्टा॥

                    कविकोकिल-वाल्मीकि-विरचिता

                    रामायणरमणीय कथा।    

                    अतीव-सरला मधुरमंजुला

                   नैव क्लिष्टा न च कठिना॥  ॥सुरस.....॥

व्यासविरचिता गणेशलिखिता

महाभारते पुण्यकथा।

कौरव - पाण्डव -संगरमथिता

 नैव क्लिष्टा न च कठिना॥          ॥सुरस.....॥

                    कुरूक्षेत्र-समरांगण - गीता

                    विश्ववन्दिता भगवद्‌गीता

                    अमृतमधुरा कर्मदीपिका               

                    नैव क्लिष्टा न च कठिना॥  ॥सुरस.....॥

कविकुलगुरू - नव - रसोन्मेषजा

ऋतु - रघु - कुमार - कविता।

विक्रम - शाकुन्तल - मालविका

नैव क्लिष्टा न च कठिना॥        ॥सुरस.....॥

जयतु संस्कृतम्।।                  जयतु भारतम्।।

https://youtu.be/VuuoR3m1Lm4

लक्ष्यमस्ति निश्चितं तथा विचारितं

।।लक्ष्यमस्ति निश्चितं।।
   ।। तथा विचारितं।।

लक्ष्यमस्ति निश्चितं तथा विचारितं,
आचरेम मित्र संस्कृतेन पाठनम्......।।

आंग्ल भाषया हि आंग्ल मध्य पाठ्यते..
हिन्दी हिन्दी भाषया तथैव शिक्षते।
संस्कृतेन संस्कृतं कथं न पाठ्यते..
आचरेम मित्र संस्कृतेन पाठनम्....।।

लक्ष्यमस्ति निश्चितं तथा विचारितं,
आचरेम मित्र संस्कृतेन पाठनम्......।।

बौद्धिकारिकं तथासु दिप्ति कारिकम्..
रहस्य भेदनं विधाय तुष्टि दायकम्..
रसानु भूति ये नो जायते ध्रुवम्..
आचरेम मित्र संस्कृतेन पाठनम्.।।

लक्ष्यमस्ति निश्चितं तथा विचारितं,
आचरेम मित्र संस्कृतेन पाठनम्......।

साध्यमस्ति सस्कृतेन शिक्षणं वरम्..
श्रद्धया स्वनिष्ठया विवर्धितं वरम्..
नास्ति क्लिष्टतायुतं विरम्यते कथम्..
आचरेम मित्र संस्कृतेन पाठनम्..।।

लक्ष्यमस्ति निश्चितं तथा विचारितं,
आचरेम मित्र संस्कृतेन पाठनम्......।

लक्ष्यमस्ति निश्चितं तथा विचारितं,
आचरेम मित्र संस्कृतेन पाठनम्......।

लक्ष्यमस्ति निश्चितं तथा विचारितं,
आचरेम मित्र संस्कृतेन पाठनम्......।

Youtube link:- https://youtu.be/wwIKmaEAva4

भवतु भारतम्

भवतु भारतम्

शक्तिसम्भृतं युक्तिसम्भृतम्
शक्तियुक्तिसम्भृतं भवतु भारतम् ।।

शस्त्रधारकं शास्त्रधारकम्
शस्त्रशास्त्रधारकं भवतु भारतम् ।।

रीतिसंस्कृतं नीतिसंस्कृतम्
रीतिनीतिसंस्कृतं भवतु भारतम् ।।

कर्मनैष्ठिकं धर्मनैष्ठिकम्
कर्मधर्मनैष्ठिकं भवतु भारतम् ।।

भक्तिसाधकं मुक्तिसाधकम्
भक्तिमुक्तिसाधकं भवतु भारतम् ।।

भारतं भारतं भवतु भारतम्
भारतं भारतं भवतु भारतम्।।

https://youtu.be/X2xPEpdslf4

कालिदासो जने जने


कालिदासो जने-जने कण्ठे-कण्ठे संस्कृतम् ।
ग्रामे-ग्रामे नगरे-नगरे गेहे गेहे संस्कृतम् ॥.....


सरला भाषा मधुरा भाषा दिव्य भाषा संस्कृतम् ।
मुनिजनवाणी कविजनवाणी प्रियजन वाणी संस्कृतम् ॥1
कालिदासो जने-जने कण्ठे-कण्ठे संस्कृतम् ......


वसतो-वसतो रामचरितम् प्रियजन भाषा संसकृतम् ।
सदने-सदने भारत देशे ग्रामे-ग्रामे संस्कृतम् ॥2
कालिदासो जने-जने कण्ठे-कण्ठे संस्कृतम् ......


मुनिजन वांञ्छा कविजन वांञ्छा प्रियजन वांञ्छा संस्कृतम् ।
वदने-वदने कार्यक्षेत्रे वार्तालापे संस्कृतम् ॥3
कालिदासो जने-जने कण्ठे-कण्ठे संस्कृतम् ......

https://youtu.be/dksTsJDRi7Q

मंगलवार, 11 अक्तूबर 2022

अवनितलं पुनरवतीर्णा स्यात्

अलनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा 
धीर भगीरथवंशोऽस्माकं वयं तु कृतनिर्धाराः ।।

निपततु पण्डितहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहताज्जनमनसि
पुत्रसहस्त्रं समुद्धृतं स्यात् यान्तु च जन्मविकाराः ।। धीरभगीरथ.................।।

ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्ने किं न लभेत एवं सन्ति विचाराः ।। धीरभगीरथ....................।।

या माता संस्कृतिमूला
यस्या व्याप्तिस्सुविशाला
वाङ्मयरूपा सा भवतु
लसतुचिरं सा वाङ्माला 
सुरवाणीं जनवाणीं कर्तुं यतामहे कृतिशूराः ।। धीरभगीरथ......................।।

                                      - डा. नारायणभट्टः

शूरा वयम्

शूरा वयम्

शूरा वयं धीरा वयं वीरा वयं सुतराम् 
गुणशालिनो बलशालिनो जयगामिनो नितराम् ।।

दृढमानसा गतलालसाः प्रियसाहसाः सततम् 
जनसेवका अतिभावुकाः शुभचिन्तका नियतम् ।। १ ।।

धनकामना सुखवासना न च वञ्चना हृदये 
ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये ।। २ ।।

गतभीतयो धृतनीतयो दृढशक्तयो निखिलाः 
यामो वयं समराङ्गणं विजयार्थिनो बालाः ।। ३ ।।

जगदीश हे परमेश हे सकलेश हे भगवन् 
जयमङ्गलं परमोज्ज्वलं नो देहि परमात्मन् ।। ४ ।

शुक्रवार, 27 दिसंबर 2019

स्वागत—गीतम्

स्वागत—गीतम्

महामहनीय मेधाविन्, त्वदीयं स्वागतं कुर्मः।
गुरो गीर्वाणभाषायाः, त्वदीयं स्वागतं कुर्मः।।
दिनं नो धन्यतममेतत्, इयं मंङ्गलमयी वेला।
वयं यद् बालका एते, त्वदीयं स्वागतम् कुर्मः॥
न काचिद् भावना भक्तिः, न काचित् साधना शक्तिः।
परं श्रद्धा-सुमाञ्जलिभिः, त्वदीयं स्वागतं कुर्मः।
किमधिकं ब्रूमहे श्रीमन् निवेदनमेतदेवैकम्।
न बाला विस्मृतिं नेयाः त्वदीयं स्वागतं कुर्मः॥