लोकप्रिय पोस्ट

मंगलवार, 11 अक्तूबर 2022

अवनितलं पुनरवतीर्णा स्यात्

अलनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा 
धीर भगीरथवंशोऽस्माकं वयं तु कृतनिर्धाराः ।।

निपततु पण्डितहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहताज्जनमनसि
पुत्रसहस्त्रं समुद्धृतं स्यात् यान्तु च जन्मविकाराः ।। धीरभगीरथ.................।।

ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्ने किं न लभेत एवं सन्ति विचाराः ।। धीरभगीरथ....................।।

या माता संस्कृतिमूला
यस्या व्याप्तिस्सुविशाला
वाङ्मयरूपा सा भवतु
लसतुचिरं सा वाङ्माला 
सुरवाणीं जनवाणीं कर्तुं यतामहे कृतिशूराः ।। धीरभगीरथ......................।।

                                      - डा. नारायणभट्टः

कोई टिप्पणी नहीं: