लोकप्रिय पोस्ट

काव्यप्रकाश लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
काव्यप्रकाश लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

गुरुवार, 17 जून 2021

काव्यप्रकाश - आचार्य मम्मट के अनुसार काव्य के भेद उदाहरण सहित

काव्यभेदाः

संस्कृत-काव्यशास्त्र-परम्परायाम इन्द्रियार्थसन्निकर्षम्य एवं रचनाशैल्या दृष्ट्या काव्यस्य नैक भेदा: विहिता सन्ति। काव्यस्य रचना सौष्ठव-ग्राह्यत्व-भाषागतभेदप्रभेदभ्यः विलक्षणस्य काव्यस्य अत्यधिक प्रधानप्राणभूततत्त्वयंग्यस्य सत्तात्मकताया: तथा उत्कर्षापकर्षस्य दृष्ट्वा ध्वनिकार-आनन्दवर्धनस्य मतमनुसृत्य आचार्यमम्मटेन काव्यस्य भेदा: त्रिधाप्रतिपादिता-

1. उत्तमकाव्यम् (ध्वनिकाव्यम्)
2. मध्यमकाव्यम् (गुणीभूतव्यंग्यकाव्यम्)
3. अधमकाव्यम् (चित्रकाव्यम्)

              1. उत्तमकाव्यम् - (ध्वनिकाव्यम्) -  आचार्यमम्मटस्य काव्यभेदविषयकं मत संक्षेपतः निम्नप्रकारेण निरूपयितुं शक्यम् – “इदमुत्तमतिशायिनि व्यंग्ये वाच्याद ध्वनिर्बुधै: कथितः।" अर्थात् यत्र वाच्यार्थस्य अपेक्षया व्यंग्यार्थस्य चमत्कारित्व प्राप्यते तत्रोत्तममं काव्यं भवति। विद्वांसः इदं ध्वनि काव्यमिति वदन्ति। उदाहरण-

       नि:शेषच्युतचंदनं   स्तनतटं   निर्मृष्टरागोधरो, 
       नेत्रे दूरमनञ्जने पुलकिता तन्वी  तवेयं तनुः । 
       मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे, 
       वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्।।
 
                अत्र वक्तुः बोद्धश्च वैशिष्ट्येन इदं स्पष्टं भवति यत्वं तमेव नायकमुपगताऽऽसी तथा रमणं गताऽऽसी, इदं मधुरं तथ्यमधमपदेन व्यज्यते । 
              अत्र वाच्यापेक्षया व्यंग्यार्थस्य अधिकचमत्कारित्वात् इदम् उत्तमकाव्यस्य अथवा ध्वनिकाव्य कोट्यामाधीयते।

            2. मध्यमकाव्यं गुणीभूतव्यंग्यकाव्यम् - आचार्यमम्मटः मध्यमकाव्यं वा गुणीभूतव्यंग्य काव्यं परिभाषमाणः अभिहितवान् “अतादृशि गुणीभूतव्यंग्यं व्यंग्ये तु मध्यमम।" अर्थात् तथाविधं वाच्यम्य अपेक्षया व्यंग्यार्थे द्वितीय प्रकारणं काव्यं भवति । भावोऽयं यद् यत्र वाच्यार्थस्य अपेक्षाया व्यंग्यार्थे अधिकः चमत्कारः न प्राप्येत तंत्र मध्यमं काव्यम् भवति । उदाहरणम् - 

       ग्रामतरुणं तरुण्या नववञ्जुमञ्जरीसनाथकरम् ।
       पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया। |

             अत्र अशोकवृक्षम्य लतागृह ग्रामतरुणे समागमस्य संकेतं दत्त्वा गृहकार्ये व्यासक्तत्वात् तरुणी समयेन तत्र न गच्छति ( प्राप्ता भवति) तरुणश्च तत्र यथासमयं प्राप्तो भवति। तं दृष्ट्वा तरुण्याः मुखकान्तिः मलिना जायते । अत्र इत्थं व्यंग्यार्थस्य तुलनायां वाच्यार्थस्य समधिक चमत्कारित्वात् अत्र पद्ये गुणीभूतव्यंग्यकाव्यं मतम् ।

(iii) चित्रकाव्यमथवा अधमंकाव्यम् - शब्दचित्रं वाच्य चित्रमव्यंग्यं त्ववरं स्मृतम्- अर्थात् व्यंग्यार्थेन रहितं शब्दचित्रं तथा अर्थचित्रम्-इतिभेदद्वयेन अधमकाव्यं द्विधा भवति। उभयोः उदाहरणम् –

(i) शब्दचित्रम्

         स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटां
         मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्निकालय वः।
         भिद्यादुद्यदुदारदर्दुरदरी    दीर्घादरिद्र्दुम
         द्रोहोद्रेकमहोर्भिमेदुरभदा मन्दाकिनी मन्दताम्॥

              उक्तोदाहरणे कोऽपि व्यंग्यार्थो न विद्यते केवलं शब्दानाम् अनुप्रासजन्य चमत्कार अस्ति, अत इदं चित्रकाव्यमुच्यते ।

(ii) अर्थ-चित्रम्

                विनिर्गतं मानदमात्त्ममन्दिराद्
                       भवत्युपश्रुत्य यदृच्छयापि यम्। 
                ससम्भ्रमेन्द्रद्रुतपातितार्गला
                        निमीलिताक्षीन भियामरावती ॥

अत्र भिया निमीलिताक्षीव अमरावती अत्र उत्प्रेक्षाऽलंकारस्य छटा विद्यते। रसस्य दृष्ट्या अत्र वीररस प्रतीयते, किन्तु कवेः तात्पर्य रसे न सत् उत्प्रेक्षायाः चमत्कारप्रदर्शने एवा केन्द्रितं दृश्यते । अतः अत्र अर्थ चित्रम् ।
सदाबहार पुष्प