लोकप्रिय पोस्ट

जीवन-परिचय: लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
जीवन-परिचय: लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

मंगलवार, 6 फ़रवरी 2018

पण्डिता रमाबाई

स्त्रीशिक्षाक्षेत्रे अग्रगण्या पण्डिता रमाबाई १८५८ तमे ख्रिष्टाब्दे जन्म अलभत। तस्याः पिता अनन्तशास्त्री डोंगरे माता च लक्ष्मीबाई आस्ताम्। तस्मिन् काले स्त्रीशिक्षायाः स्थितिः चिन्तनीया आसीत्। स्त्रीणां कृते संस्कृतशिक्षणं प्रायः प्रचलितं न आसीत्। किन्तु डोंगरे रूढ़िबद्धां धारणां परित्यज्य स्वपत्नीं संस्कृतमध्यापयत्। एतदर्थं सः समाजस्य प्रतारणम् असहत। अनन्तरं रमा अपि स्वमातुः संस्कृतशिक्षां प्राप्तवती।
          कालक्रमेण रमायाः पिता विपन्नः सञ्जातः । तस्याः पितरौ ज्येष्ठा भगिनी च दुर्भिक्षपीडिताः दिवङ्गताः। तदनन्तरं रमा स्व-ज्येष्ठभ्रात्रा सह पद्भ्यां समग्रं भारतम् अभ्रमत्। भ्रमणक्रमे सा कोलकातां प्राप्ता। संस्कृतवैदुष्येण सा तत्र 'पण्डिता' 'सरस्वती' चेति उपाधिभ्यां विभूषिता । तत्रैव सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत्। पश्चात् सा स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती ।

1880 तमे ख्रिष्टाब्दे सा विपिनबिहारीदासेन सह बाकीपुर न्यायालये विवाहम् अकरोत् । साधैकवर्षात् अनन्तरं तस्याः पतिः दिवङ्गतः।

तदनन्तरं सा पुत्र्या मनोरमया सह जन्मभूमिं महाराष्ट्र प्रत्यागच्छत् । नारीणां सम्मानाय शिक्षायै च सा स्वकीयं जीवनम् अर्पितवती । हण्टर - शिक्षा आयोगस्य समक्षं नारीशिक्षाविषये सा स्वमतं प्रस्तुतवती । सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती । तत्र ईसाईधर्मस्य स्त्रीविषयकैः उत्तमविचारै प्रभाविता जाता।
                 इंग्लैण्डदेशात् रमाबाई अमरीकादेशम् अगच्छत् । तत्र सा भारतस्य विधवास्त्रीणां सहायतार्थम् अर्थसञ्चयम् अकरोत् । भारतं प्रत्यागत्य मुम्बईनगरे सा 'शारदा-सदनम्' अस्थापयत्। अस्मिन् आश्रमे निस्सहायाः स्त्रियः निवसन्ति स्म । तत्र स्त्रियः मुद्रण टङ्कण - काष्ठकलादीनाञ्च प्रशिक्षणमपि लभन्ते स्म । परम् इदं सदनं पुणेनगरे स्थानान्तरितं जातम् । ततः पुणेनगरस्य समीपे केडगाँव- स्थाने 'मुक्तिमिशन' नाम संस्थानं तया स्थापितम् । अत्र अधुना अपि निराश्रिताः स्त्रिय: ससम्मान जीवन यापयन्ति|
                    1922 तमे ख्रिष्टाब्दे रमाबाई - महोदयायाः निधनम् अभवत्। सा देश-विदेशानाम् अनेकासु भाषासु निपुणा आसीत्। समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि तस्याः महत्त्वपूर्णम् अवदानम् अस्ति। 'स्त्रीधर्मनीति' 'हाई कास्ट हिन्दू विमेन' इति तस्याः प्रसिद्धं रचनाद्वयं वर्तते|