लोकप्रिय पोस्ट

शोधपरक. शिक्षाचार्य. लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
शोधपरक. शिक्षाचार्य. लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

रविवार, 6 जून 2021

प्राचीन वेदानुसारेण पर्यावरणस्य सम्प्रत्यानाम् अध्ययनम्।

।।प्राचीन वेदानुसारेण पर्यावरणस्य सम्प्रत्यानाम् अध्ययनम्।।

   श्री सरस्वती वाग् अधिष्ठात्री नमः।।
श्री सीतारामचरकमलेभ्यः नमः।।
शिक्षायाः स्वरूपम् –
    समग्रे प्राणिसंसारे मानवमहत्ता शिक्षयैव मन्यते। शिक्षादीप्तिदीपितः एव पुरुषः क्रेमेकोन्नतिमातमोतु। अगकनीयां योनिपरम्परामनुसेत्य स्वकर्मफलानुसारमेव जीवो मानवयोनिं प्राप्नोति। सहजतया मानवजन्मः न लभ्यते, मानवजन्म तु प्राक्कालिकजन्मजन्मारार्जितानां पुण्यनां फलमेवास्ति। यत् पुण्यं मानवजीवन – प्रदमुन्नतिकरञ्च कथ्यते तत्पुण्यं पुरूषे शिक्षयैव विद्यते। सम्पाद्यते च मानवानां निखिलमप्युन्नतिमयं जीवनं शिक्षाश्रियमेव वेद्यम्। वेदविद्यावता आद्यां स्मृतिपरम्परामुदन्मायता मनुना भुतेषु प्राणिनां प्राणिषु बुद्धिजीविनां, कृतबुद्धिषु कतृणां, कर्तृषु, ब्रह्मविदो श्रेष्ठता समाख्याता। तथाहि –
भुतानां प्राणिनः श्रेष्ठा प्राणिनां बुद्धिजीविनः। 
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्माणाः स्मृताः।
ब्राह्माकेषु च विद्वांसो विदवत्सु कृतबुद्धयः।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिन।
वेद शास्त्र – विज्ञानादीनां साध्वनुशीलने तत्त्वार्थज्ञानं च विद्येति। स्वीक्रियते - “अविद्यया मृत्यं तीर्त्वा विद्यत्राऽमृतमश्नुते” इति खलु वेदघोषः।
    सा विद्या एव प्रकृष्टा या विद्या मुक्तिं प्रददाति। उपनिषदाम् अनुसारेण द्वे विधाः परा अपरा च। यथा विद्यया लौकिकं ज्ञानं ज्ञायते, सा अपरा विद्या। यथा च अक्षर – ब्रह्माविषयकं ज्ञानं ज्ञायते, सा परा विद्या। लौकेऽस्मिन् विद्या एव तज्ज्योतिः यद् ज्ञायते, सा परा विद्या। लोकेऽस्मिन् विद्या एव तज्ज्योतिः यद् मानवे ज्ञानज्योतिं ज्वालयति, अविद्यान्धतमसं व्यपोहति, दुर्गकरणं वारयति, सद्गुकततिं संचारचति, कार्ति प्रथयति, गौरवं विकासयति, यशो वितनोति, भूभूत्सु च आदरम् आवहति। एषा मातृवत् संरक्षिका, पितृवत् सत्पथप्रदर्शिका, कान्तावत् सुखदामनोञ्जिका च, कार्तिप्रदा, वैभवदायिनी। दुगुणगणनाशेन मनसः पावयित्री च।
मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेवचाभिरमयत्यपनीय खेदम्।
लक्ष्मी तनोति वितनोति च दिक्षु कार्तिः किं किं न साध्यति कल्पलतेव विद्या।
                                    (निबन्धशतकम्)
शिक्षाया अर्थः –
    शिक्षायाः शाब्दिकार्थे शब्दस्य कोऽर्थः अभिप्रेत इत्यास्मिन् विषये चर्चा विधीयते। “शिक्ष – विद्योपादाने इत्यस्माद् भौवादिकधातोः”, “गुरोश्च हलः” इति राणिनीय सूत्रेण अ- प्रत्यये सति “अजाद्यतष्टाप” इति टापि शिक्षा इति शब्दाः निष्पद्यते। शिक्षाशब्देन प्रमुखतया विद्याग्रहणमेव ध्वन्यते। अपि च ‘शक्लृ - शक्तौ’ इत्यस्मात् सौवादिकधातोः सति प्रत्यये सति स्त्रियां पूर्ववदेव अ – प्रत्यये टापि च शिक्षा – शब्दो निष्पद्यते। परमनेन शब्देन अर्थाद्वयं निस्सरति। ‘शिक्षेर्जिज्ञासायाम् इति वार्तिकप्रमाणेन यदा अयं जिज्ञासावाची भवति। तदा विद्यासु शिक्षते इतिवत्। शब्दोऽयं जिज्ञायार्थकः भवति। यदा शक्तुमिच्छति इत्यर्थे शिक्षाशब्दः तदा अयं ग्रहीतुः सामर्थ्यप्रदायिवस्तु भवति। प्रकारान्तरेण त्रिष्वप्यर्थेषु विद्योपादाने जिज्ञासायां सामर्थ्यलाभे चायं शिक्षाशब्दः महान्तमर्थं प्रकृटयति। यतो हि विद्याग्रहणे जिज्ञासैव प्रवर्त्तयति विद्यार्थिनम्। ततः जिज्ञासया विद्यायाः ग्रहणे सति सामर्थ्यवर्धनं भवत्यैव।
 पर्यावरणसम्प्रत्ययः -
    परि+आवरणम् इत्याभ्यां प र्यावरणम् इति पदं निष्पन्नम्। परि इत्यस्य अर्थः भवति चतस्रः दिशः इति। आवरणम् इत्ययं शब्दः ‘अ’ इति उपसर्गपूर्वकम् वृञ् – वरणे इत्यस्मात् धातो ल्युट प्रत्ययान्तः वर्तते। अस्यार्थः आच्छादितम् इति। पर्यावरणम् इति पदस्य तात्पर्यार्थः भवति चतसृभिः दिग्भिः आच्छादितम् इति। परितः आवरणमेव पर्यावरणम्। अस्मान् परितः यानि तत्वानि विलसन्ति तानि सर्वाणि पर्यावरणम् इति नाम्ना व्यपदिश्यन्ते। यथा समीरः, आपः, अग्निः, वनस्पतिः, वृक्षः, खगः, जन्तुः, कीटः, मनुष्यः इत्यादयः। एतेषां समेषां तत्वानां समाहारः पर्यावरणम् भवति। 
जड़चेतनात्मके अस्मिन् जगति प्राणीमात्रस्य जीवनाय कतिचित् तत्त्वानि महदावश्यकानि सन्ति। यथोदर पोषणाय आहारः पिपासा शान्त्ये जलं निःश्वास - प्रश्वासाय वायुश्च एतानि जीवनावश्यकतायै अत्यन्तावश्यकानि तत्त्वानि। कतिपयः – कारणेभ्यः आधुनिकसंस्कृतिमये नाना जीवव्याप्ते पृथ्वीतले दोषपूर्णानि भवन्ति दृश्यन्ते प्रतीयन्ते च। हेतोरस्मात् पृथिव्यां निवसद्भिः प्राणिभिः सहैव वृक्षवनस्पतीनामपि जीवितत्वं काठिन्यं भजति। यथा खलु वयं जानीमः अनुभवामश्च जगदिदं स्थावरजंगमात्मकं तत् द्वन्दैः निर्मितं स्थितीकृतं चास्ति। एतेषु द्वन्देषु स्थिरीभूतेषु अस्याः सृष्टेः स्थिरता सभ्यात्यते नान्यथा। वस्तुतस्तु एषा द्वन्दात्मकता – जगत – सर्जनायाः महानतमनियमेषु अन्यतमा विद्यते। यदा चास्माभिः पर्यावरणं प्रति दृष्टिः निक्षिप्यते तदा अवबुध्यते तत् पर्यावरणदृशो प्राणिधारिभिः सह तदितरेषां वन - वृक्षसागरसरितां गहनम सामञ्जस्यं वर्तते। सम्प्रति विज्ञानेन सूक्ष्मस्थूलाध्ययनाभ्याम् अन्वेषणेन च परीक्ष्य तथ्यमिदं स्पष्टीकृतमस्ति यत् वृक्षवनस्पत्यादिभिः श्वसनप्रक्रियायां विसर्जितः ओषजन (आक्सीजन – अभिधानो वायु - विशेषः) श्वसद्भिः समस्तप्राणिभिः श्वसनक्रियायै ग्राह्यो अस्ति, यतः वायु विशेषोऽयं रक्तशोधेन परमाववश्यकः। वेदेषु बहवः मन्त्राः तादृशाः सन्ति ये खलु पूर्णतः पर्यावरणेन सम्बद्धा सन्ति। यथा एकस्मिन् मन्त्रे वैदिकः ऋषिः वनस्पतिं प्रार्थयति - “ओषधिः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः। अश्वाऽइव सजित्वरी व्वीरुधः पारयिष्णवः।।” (ऋग्वेद -4 )        
अन्यत्र च ऋषिः ओषधिं प्रार्थयति यत् - “त्वां गन्धर्व्वाऽअखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः। त्वामोषधे सोमो राजाव्विद्वान्यक्ष्मादमुच्यत्।।” अर्थात् हे ओषधेः त्वामिन्द्रः बृहस्पत्यादयः महान्तो देवा अद्नन् त्वत्प्रभावात् सोमाभिधः औषधीशः यक्ष्माद्यात् रोगात् विमुक्तः सञ्जातः इति।
पर्यावरणचक्रम्












पर्यावरण किम् –                                                  
        पृथिव्यां यस्मिन्भागे जीवधारिणी निवसन्ति तज्जीवमण्डतमित्युच्यते। जीवमण्डलस्य मापं प्रायः स्थिरमस्ति। श्रेत्रमिदमाधुनिक – वैज्ञानिक-दृष्ट्या पृथिवीतः प्रायः सप्तदश – क्रोशं (किलोमिटर) यावद् ऊर्ध्वं विस्तीर्णमस्ति। जीवमण्डले पृथिवी – वायु – जल – वृक्ष- वनस्पतयः सर्वे च जीवाः वसन्ति। प्राणिमण्डले पृथिवीवायुजलेन समुद्रोऽस्ति च एतानि त्रीण्यपि तत्त्वानि जीवनायावश्यकानि सन्ति।                     
           वेदा अस्माकमास्थायाः प्रतीकाः सन्ति। संस्कृतसाहित्यस्योद्गमस्थलाश्च संस्कृतेः सभ्यतायाः ज्ञानविज्ञानस्योन्नायकाः विधायकाश्च वेदाः। वेदेषु पर्यावरणमेव मानवस्य समग्रोन्नत्याः केन्द्रबिन्दुः वैदिकसाहित्यमस्ति। यद्यपि अल्पज्ञाः – मन्दमतयः वेदानां वैदिकप्रकृतिम् अनुसृत्य तस्य अर्थनिरूपणार्थे प्रयत्नं कृतवन्तः यस्मात् वेदानां वैज्ञानिकतायां प्रश्नचिह्नम् उद्भवति। ऋषिप्रणीतार्थानां प्रतिपादनं वैज्ञानिकतायाः पराकाष्ठा। लौकिक – वैदिकार्थानां भिन्नतां प्रदर्श्य वैदिकसाहित्यं यं मार्गमदर्शयत् तत् स्मरणीयमस्ति। पर्यावरणीया व्यवस्था वेदचतुष्टये येन केनाऽपि रूपेण लभ्यते किन्तु यजुर्वेदे मुख्यतः कर्मकाण्डस्य विषयत्वात् पूर्णं विवेचनं प्राप्यते। यजुर्वेदस्य प्रथमः मन्त्रः एव अस्य परिचायकः। अस्य वेदस्य एकस्मिन् मन्त्रे जगति व्याप्तकलानां वर्णनमस्ति यत्र पृथिव्याकाशवायु – अग्नीनां प्रतिपादनमस्ति। एतत् सर्व परमात्मना प्रजायाः प्रकाशाय विरचितम्। एताः षोडशकलाः सन्ति। यथा – 
ईक्षणं (यथार्थविचारः)।
प्राणः (वायु) यः विश्वं विभर्ति।
श्रद्धा (सत्ये विश्वासः)।
आकाशः।
वायुः।
 अग्निः।
जलम्।
पृथ्वी।
इन्द्रियाणि।
मनोज्ञानम्।
अन्नम्।
वीर्यम्।
तपः (धर्मानुष्ठान् - सत्याचारौ)।
मन्त्राः (वेदविधा)।
कर्माणि (सर्वचेष्टाः)।
नाम (अर्थात् दृश्यादृश्य पदार्थानां संज्ञा)।
           ऐतरेब्राह्माणे अपि उक्तमस्ति – ‘मनुष्यसमूहस्य सुखं यज्ञेन भवति।’ संस्कारितद्रव्याणां हवनेन विदुषे मानवाया आनन्दः प्राप्यते यतोहि परमार्थात् ईश्वरः परोपकारिणं नानाविधसुखैः तर्पयति।
       शतपथब्राह्मणेऽप्युक्तमस्ति यत् हवने यानि द्रव्यानि क्षिप्यन्ते तैः धूमः वाष्पश्च उत्पद्यते यतोहि अग्नेः स्वभावः पदार्थषु प्रविश्य छिन्नं भिन्नं करोति पश्यात् ते लघु भूत्वा वायुना सह आकाशे सह आकाशे व्याप्नुवन्ति।
‘अग्नेर्वैधूमो जायते धूमाद् भ्रमाद् वृष्टिरग्नेर्वा एता जायन्ते तस्मादांह तपोया इति।’
             ऋग्वेदे इन्द्रवृत्रासुरसूक्तं पर्यावरण – शिक्षायाः सुरक्षायाः च विषयः समेषाम् अवधानम् आकर्षयति। महर्षिः स्वकीये भाषार्थे वर्णनं सुन्दररूपेण कृतवान्। इन्द्र इति सूर्यस्य नाम, यः महान् पराक्रमी तेजोवान् चाऽस्ति। सः स्व – किरणैः वृत्रं अर्थात् मेघं हन्ति, स च मृतो भूत्वा पृथिव्यां पतति तां च व्याप्नोति तथा महद् इन्द्रियरूपेण परिपूर्णा भूत्वा समुद्रे मिलति, पुनः सूर्येण मेघरूपे व्याप्नोति। वृत्रस्य अस्मात् जलरूपशरीरात् बहव्यः नद्यः उत्पन्नाः भूत्वा अगाधे समुद्रे मिलन्ति, अवशिष्चं जलं कूपतडागादिजलाशयेषु विद्यते तत् मन्ये पृथिव्यां शेते इव।
ज्योतिषशास्त्रानुसारेण पर्यावरणस्य महत्त्वम् -             
   प्राचीनभारतीय – ज्यातिषशास्त्रे सूर्यचन्द्रादीनां ग्रहाणां पूज्यत्वेन स्वीकारः प्राचीनानां भारतीयानां पर्यावरणविषयकं चिन्तनं प्रस्तौति। शास्त्रेऽस्मिन्तेषां ग्रहाणां देवत्वमपि प्रतिष्ठापितम्। ज्योतिषशास्त्रे विशिष्ठ रूपेण ग्रहस्य विचारः क्रियते, एवं ग्रहा अनुसारेण पूर्णिमायां रात्रिसमये चन्द्रेणाकृष्णस्य सन्तुलयन्ति जलमुत्थानं प्राप्नोति तथा च कृष्णपक्षे यथायथं चन्द्रकलानाम् ह्रास्यः भवति। शुक्लपक्षे च यथायथं बृद्धिर्भवति तथा तथा सम्पूर्णेऽपि पर्यावरणे कश्चन विशिष्टः प्रभावो दरीदृश्यते। शुद्धं वातावरणं स्वस्थं च जीवनं सर्वविधस्य विकासस्य साधकं भवतीति विचिन्त्यैव संस्कृतसुकविभिर्वातावरणशुद्धिर्बहुधा तेन हि तेषां मनीषिणां पर्यावरणं प्रति जागरूकत्वं स्पष्टं परिलक्ष्यते। मातृवत् पृथिव्यां श्रद्धाभावो वेदेषु बदुधा प्रकाशितः – 
“माता भूमिः पुत्रोऽहं पृथिव्याः”
एवम्विधेषु मन्त्रेषु भूमण्डलेन मानवजातेः स्नेहमयः सम्बन्धः प्रदर्शितः।
         इमे कवयः पर्यावरणसंरक्षणविषयकज्ञानस्य धारां महर्षिभ्यः समासादितां स्वप्रज्ञाबलेन परिष्कृतवन्तः। अस्या परम्पराया निर्वाहः कालिदास – बाणभट्ट – भवभूति – प्रभृतिभिः परवर्तिभिः कवुभिरपि सम्यक्तया कृतः। इयमेव प्रकृतिः कालिदासस्य काव्येषु संश्लिष्टसौन्दर्यमुपस्थापयति। कविकुलगुरुः कालिदासः प्रकृतेः सूक्ष्मातिसूक्ष्ममपि पक्षं स्वसाहित्ये प्रकाशयति स्म। ऋतुसंहारे मेघदूते तथा च अभिज्ञानशाकुन्तले प्रकृतिवर्णनं सौन्दर्यततत्त्वैः सञ्जातमिति कल्पितम्। 

सारांशः –
            सम्प्रति चतुर्ष्वपि वेदेषु महत्वपूर्ण वर्णनमस्ति। तस्य कारणमिदमस्ति यज्ञ एव स विधिर्येन प्राकृतिकं सन्तुलनं स्थापयितुं, वायुमण्डलशोधनम्, विविधरोगविनाशः, शारीरिकी, मानसिकी, चोन्नतिः रोगनिवारणेन दीर्घायुष्यप्राप्तिश्च सम्भवति। यक्षेन भूप्रदूषणं जलप्रदूषणं, वायुप्रदूषणं, ध्वनिप्रदूषणञ्च निरोधयितुं शक्यतें एतस्मादेव कारणाद्वेदेषु यज्ञ – यागादीनां वर्णनं महत्वपूर्णेन विधिना कृतमस्ति।
वस्तुतः प्रकृतावेका चक्रव्यवस्था प्रचलति, येन प्रत्येकं पदार्थः स्वकीयं मूलस्थनवाप्नोति। एमस्मिन्नेवाधारे ऋतुचक्रम्, वर्षचक्रम्, अहोरात्रचक्रम्, सौरचक्रम्, चान्द्रचक्रादिकञ्च विविध चक्रम् प्रवर्तितं भवति। इदं प्राकृतिकं चक्रमेव पारिभाषिकशब्दावल्ल्यां यज्ञ इत्युच्यते। सोऽयं विश्वस्मिन् प्रतिक्षणं प्रचलति। यज्ञोऽयमस्य सृष्टिचक्रस्य नाभिरुक्तः। तद्यथा यजुर्वेदः – “अयं यज्ञो भुवनस्य नाभिः” इति गोपथब्राह्मणे वर्णितमस्ति। यदृतुसन्धानवेव व्याधिर्जायते। तस्मद्व्याधिशान्तये यज्ञोऽपि ऋतुसंन्धानमेव क्रियते। यथा – “भैषज्ययज्ञा वा एते, ऋतुसंन्धिषु प्रयुज्यन्ते, ऋतुसंन्धिषु वै व्याधिर्जायते” इति। यज्ञेषु प्रयुक्तानि द्रव्याणि – यज्ञेषु समिधा, घृतम् हव्यसामग्रयः स्थालीपाकादयश्च प्रयुज्यन्ते। अत ऐतेषां पदार्थानामुपयोगेन प्रकृतेः संतुलनम्, पर्यावरणस्यशोधविविधाधिव्याधिविनाशः, सर्वविधशान्तिसम्भवति।
 मानवसभ्यतायाः संरक्षणाय विकासाय हि पर्यावरणशिक्षा अत्यन्तमावश्यकी अस्ति। यतोहि पर्यावरणविषयिणी जागरूकता यदि मानवस्य एव न स्यात् तर्हि यूनान- मिस्र – रोम – बेबीलोन – हडप्पादयः सभ्यता प्रत्येकं क्षेत्रविशेषस्य च संस्कृतिः धूलिधुसरिता भविष्यति अतः मानवरूपप्राणिनः तत्सभ्यतायाः तत्संस्कृते च पल्लवनं मानवस्य आद्यं कर्तव्यम्। पर्यावरणस्य अस्यामेव विस्तृतभावनायां भूमण्डलाश्रितानि सर्वाणि तत्त्वानि अन्तर्भवन्ति येन मानवजीवनं प्रभावितं भवति।
        यदि वयं पर्यावरणं प्रति उपेक्षां करिष्यामः तर्हि विश्वमानवः विनाशस्य शिखरे प्रत्यासन्नो भविष्यति। पर्यावरणशिक्षया मानवः प्रकृतिं प्रायोन्मुखं भवति। प्रकृत्याः अनावश्यकदोहनस्य प्रतिफलात् ज्ञास्यति। यच्च मानवसंस्कृत्यै अमङ्गलकारी अस्ति। पर्यावरणशिक्षया – एव पर्यावरणपरिवेशे औचित्यानुगुणम् आमूल –चूल – परिवर्तनं कृत्वा परमाणुयुद्धस्य विभीषिकया मुक्तः भविष्यति। इयं हि शिक्षा मानवं समुचितान् नैतिकाञ्च मूल्यान् प्रति सचेतनान् कृत्वा विश्वमानवसंस्कृतेः विकासाय योगदानं कर्तुं शक्नोति। इत्थम् 
                                                                                       .....अशोक कुमार:
          शिक्षाचार्य:











    उपयुक्तग्रन्थसूची
     Bibliography

द्विवेदी, कपिलदेव, (2010) संस्कृतनिवन्धशतकम्, वाराणसी, विश्वविद्यालय प्रकाशन वाराणसी।
सक्सेना ए.बी, पर्यावरण शिक्षा, देहली, आर्यबुक डिपो देहली।
शास्त्री, रामानारायण, (1968) संस्कृतवाङ्मये पर्यावरण विज्ञानम्, संस्कृतमञ्जरी, विज्ञान- विशेषाङ्क, नवदेहली। देहलीसंस्कृत – अकादमी, वर्ष 8 अङ्क।
घिल्डियालऋ, विनीत, (2007) वैदिक वाङ्मयेपर्यावरण चिन्तनम् संस्कृतमञ्जरी, शोधपत्रिका, नवदेहली देहलीसंस्कृत- अकादमी। वर्ष 6 अङ्क।
पाठकः, कमलाकान्त, (2010) अग्निहोत्रेण पर्यावरण शोधनम्ष संस्कृतमंञ्जरी, शोधपत्रिका, नवदेहली, देहलीसंस्कृत – अकादमी, वर्ष 9 अङ्क 2
डा. मण्डन मिश्र, संस्कृत संस्कृति मञ्जरी, नाग प्रकाशन, नवदेहली।