लोकप्रिय पोस्ट

Research M.Ed शिक्षाचार्य लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
Research M.Ed शिक्षाचार्य लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

रविवार, 6 जून 2021

शोधसंक्षिप्तिका शिक्षाचार्य (Synopsis M.Ed Sanskrit Medium)

श्लिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता ।

यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ।।

(मालविकाग्निमित्रम् 1/16)

शोधस्य पृष्ठभूमिः (Preface of Research)

    वेदाः सन्त्यानुसन्धातृभिः महर्षिभिरनुभूतस्य परमतत्त्वस्य बोधयितारो भूत्वा भुवि विभान्ति । यत्र प्रत्यक्षस्य न च अनुमानस्य प्रवेशस्तत्रापि ते प्रविशन्ति । एषामेव भारतीयसभ्यता-संस्कृतेश्चाधारमूलानां शिक्षा वर्तते षडङ्गेषु आद्यमङ्गमत्र । स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते च सा  शिक्षेति । वेदानां वैदिकसाहित्यस्य वा अध्ययनाध्यापनविषयकविधीनां निर्देशः शिक्षाशास्त्रे कृतः । शिक्षाशास्त्रेतिहासः पुरातनतरः वर्तते । संस्कृतवाङ्मये विशेषतः व्याकरणशिक्षणं प्रमुखं स्थानं भजते । प्रत्येकं भाषा तत्तद्वयाकरणनियमानुसारं स्वीयपरिधिनिर्माणपुरस्सरं विशिष्टां रूपरचनां सृजतीति स्पष्टमेव ।

    संस्कृतभाषा भाषास्वादिभाषा । यास्क-पाणिनि-पतञ्जलिप्रभृतीनां विद्वद्धौरेयाणां ग्रन्थाः संस्कृतभाषायाः लोकव्यवहृतेश्च सन्ति समुज्ज्वलानि ज्वलन्ति प्रमाणानि । भारतीयभाषासु सुरमणीया, सुललिता, मधुरा, सर्वप्राचीना चेयं संस्कृतभाषा कठिनेति मन्वानाः बहवः एतदध्ययनात् पराङ्मुखाः तिष्ठन्ति । तत्रैव एतदपि आश्चर्यभूतं दरीदृश्यते यत् सहस्रशः संस्कृतविद्वान्सः, सेवारताध्यापकाः, अध्येतारः, समर्पितजीवनाः संस्कृतप्रचारकाः छात्राः, बान्धवाः च अस्याः अभ्युत्थानाय अहर्निशं यतमानाः सन्ति । एतेषां प्रोत्साहनाय संस्कृतायोगः ऊर्जाबलं यथासमयं प्रयच्छत्येव । संस्कृतभाषाशिक्षणे विविधेषु आधुनिकेषु शिक्षाशास्त्रग्रन्थेषु सत्सु प्राविधिक-शास्त्रप्रतिपादिते अभिक्रमिताधिगमप्रविधिप्रतिपाद्यः रेखीयाभिक्रमिताधिगमः विषयेऽस्मिन् किञ्चिदनुसन्धाय तस्य व्याकरणांशाधिगमे कीदृशो प्रभावः भवतीति जिज्ञासया कारकाधिगमे रेखीयाभिक्रमस्य प्रभावेति समस्यामाहृत्य प्रयोगात्मकमनुसन्धानं विधास्यते ।

शोधक्षेत्रम् (Research Area)

अस्त्युत्तरां दिशमलङ्कुरुते प्रकामं हैमाचलः सकलपर्वतराजिराजः ।

स्थूलाङ्गतुङ्गशिखरावलिभिवृतो यः स्रग्भिर्यथा सुरसरितसुमजाभिरिन्द्रः ।।

महाहिमवन्तस्य उपत्यकासु वासकारणादस्य प्रदेशस्य नाम हिमाचलमिति अभूत् । हिमाचलप्रदेशस्य शाब्दिकार्थः भवति हिमावृतपर्वताभ्यन्तर्स्थितप्रदेशः इति प्रदेशोऽयं पर्वतराज्ञी, देवभूमिः, बुद्धभूमिश्चापि नामाख्याता वर्तते । 55673 वर्गकिलोमीटर्-परिमितो विस्तीर्णोऽयं देवभूमिति कथ्यमानः प्रदेशः 26 जनवरी,1971 तमे वर्षे पूर्णराजस्वमाप्नोत् । प्रदेशेऽस्मिन् द्वादशजनपदाः वर्तन्ते । एषु द्वादशसु जनपदेषु सर्वाधिके (297 संख्यात्मके) उच्चमाध्यमिकविद्यालययुते  अनुसन्धात्रा चित्ते काङ्गड़ाजनपदे  एव शोधाध्ययनं समपत्स्यते । 


शिक्षा (Education)

    संस्कृतभाषायां शिक्षा  इति पदस्य व्युत्पत्तिः शिक्ष् विद्योपादाने इति धातोः गुरोश्चहलः इति पाणिनिसूत्रेण अ प्रत्यये सति निष्पन्ना भवति । अस्यार्थो भवति विद्याग्रहणम्  इति (ऋग्वेदः)। वेदेषु सर्वत्र स्वरप्राधान्यं भवत्येव, स्वरभेदनार्थभेदसम्भवात् । इदं स्वरज्ञानं शिक्षाधीनं भवति । अतः शिक्षाशास्त्रस्य वेदाङ्गता सुतराम् उपपद्यते ।

माध्यमिकस्तरःMiddle Level माध्यमिक-शिक्षाऽऽयोगः1952-53( मुदालियरायोगः)

    अस्याध्ययनस्तरस्य संस्तुतिः भारतसर्वकारेण माध्यमिक-शिक्षाऽऽयोगाय प्रदत्ता अस्ति । अनेन आयोगेन अत्र माध्यमिकस्तरे शिक्षोद्देश्यानि परिष्कृतानि सन्ति । सामान्यतः आयोगस्यास्य निश्चितोऽयं स्तरः यत् षष्ठीकक्ष्यारभ्य दशमीकक्ष्यापर्यन्तं माध्यमिकस्तरः वर्तते । अस्य स्तरानुगुणं प्राचल्यमानस्य पाठ्यक्रमस्य एव अध्यापनं विद्यालयेषु अध्यापकः सम्पादयति ।

कारकम् ( Karakam)

    क्रियान्वयि कारकम् इति पाणिनिसम्मत्तम् । अर्थात् क्रियायाः अन्वयः क्रियान्वयः । अन्वयः नाम सम्बन्धः । क्रियान्वयः अस्तीति क्रियान्वयि । यः क्रियया अन्वेति (सम्बन्धं प्राप्नोति) सः कारकमित्युच्यते इति फलितार्थः । व्याकरणशास्त्रे कारकाणि षडविधानि निगदितानि -

कर्ता कर्म च करणं सम्प्रदानं तथैव च ।

आपादानाधिकरणम् इत्याहुः कारकाणि षट् ।। 

रेखीयाभिक्रमः(Linear Programme)

    रेखीयाभिक्रमः अर्थात् शिक्षणक्रमबद्धता । शृङ्खलाभिक्रम-बाह्यानुदेशनप्रभृतनामभिः बहुश्रुतः अयं सक्रिय-शिक्षणानुबद्धताक्रमः अभिक्रमिताधिगमहेतुः अनुदेशनप्रदायकः प्रकारविशेषो वर्तते । अभिक्रमितानुदेशनप्रक्रियायाम् अस्य एव प्रकारविशेषस्य शिक्षणे आद्यप्रयोगः शैक्षिकप्रविधौ उपादेयः प्रोक्तः । मनोवैज्ञानिकस्य श्रीमतःबी.एफ्.स्किनरमहोदयस्य नामोल्लेखः महत्तां भजते यः 1943 तमे वर्षे कपोतानामुपरि प्रयोगं विधाय अधिगमाय  सक्रियानुबन्धानुक्रियेति सिद्धान्तस्य प्रतिपादनमकरोत् । रेखीयाभिक्रमे विषयस्य लघुषु-लघुषु पदेषु विभाजनं क्रियते । एतेषु पदेषु त्रीणि तत्त्वानि निहितानि भवन्ति । उद्दीपन-अनुक्रिया-पुनर्बलनादयः इत्येते त्रयः बिन्दवः शिक्षणस्य सफलतां परिपोषयन्ति । रेखीयाभिक्रमे प्रस्तावनापद-शिक्षणपद-अभ्यासपद-परीक्षणपदञ्चेत्येते पाठनस्य पदविभागाः सन्ति । तन्त्रांशोपागमे यदा शिक्षायां बलं दीयमानमासीत् तदा स्वाध्यायसामग्रीनिर्माणे प्रयासः क्रियमाणः आसीत्  । तस्मिन्  स्किन्नरयोगदानपरिणामरूपः रेखीयाभिक्रमः स्वाध्यायसामग्रीनिर्माणप्रक्रमः सृष्टो वर्तते । प्रवर्तमानानेहसि उदाहरणत्वेन दूरस्थशिक्षणपाठ्यक्रमः एतदेव सिद्धान्ताधारितो वर्तते । मनोवैज्ञानिकसिद्धान्ताधारितेऽस्मिनभिक्रमे छात्राणां व्यक्तिगतविभिन्नताधारितं शिक्षणं, तार्किकक्रमेण, क्लिष्टविषयाणां बोधगम्यतासम्पादनं विशेषतया प्रवर्तते । 

समस्याकथनम् (Statement of the Problem)

    हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्च-माध्यमिकस्तरच्छात्राणां कारकाणामधिगमे रेखीयाभिक्रमस्य प्रभावः ।

अध्ययनस्य आवश्यकता महत्त्वञ्च (Need and Importance of Study )

    शिक्षाजगति संस्कृतवाङ्मये प्रमुखनामाख्यातस्य व्याकरणस्याध्ययनं विधिनानेन कर्तुं शक्यं न वा इत्यनया जिज्ञासया अनुसन्धाने प्रविधिरयं व्याकरणशिक्षणाय चितः। व्याकरणशास्त्रे विषयविशालतां परिदृश्य कारकं नाम्ना छात्रोपकारकः प्रचलितः विषयः अनुसन्धानाय चितः । उच्च-माध्यमिकस्तरे विषयस्यास्य अधिगमः छात्राणां न संभवति । अतः एतस्मै स्तराय कारकविषयः सुलभतरः भवेदिति मत्वा अयं प्रविधिः अनुसन्धानाय स्वीकारि ।

    अपि च यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणमिति भाषा शुद्धतायाः स्पष्टतायाः वा ज्ञानसम्पादनार्थम् अनुसन्धानविषयः परिकल्पितो वर्तते । यतः क्लिष्टमिदं व्याकरणशास्त्रं तस्मात् सुलभोपायाभावे संस्कृतव्याकरणांशाः सुकरतया अवगन्तुं शक्येति प्रतिपादयितुम् अध्ययनस्य आवश्यकता वर्तते नितराम् ।



अध्ययनस्योद्देश्यानि (Aims of Study) 

  1.  हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरे रेखीयाभिक्रमस्य प्रभावपरिशीलनम्  ।

  2. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरे रेखीयाभिक्रम-पाठ्यक्रमः कारकाधिगमं प्रभावयति न वा इति परीक्षणम् ।

  3. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरे स्वाध्यायेन छात्रेषु जायमानायाः अवबोधशक्तेः अध्ययनम् ।

  4. उच्चमाध्यमिकस्तरीयच्छात्रेषु कारकाधिगमार्थं रेखीयाभिक्रमाणां निर्माणम् ।

  5. उच्चमाध्यमिकस्तरे कारकाधिगमार्थं निर्मितानां रेखीयाभिक्रमाणां प्रामाणिकतासम्पादनम् । 

  6. उच्चमाध्यमिकस्तरे कारकाधिगमे लिङ्गमिति चरस्य प्रभावपरिशीलनम् ।

  7. उच्चमाध्यमिकस्तरे कारकाणामधिगमे शालाप्रकारः इति चरस्य प्रभावपरिशीलनम् ।

  8. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरच्छात्रेषु कारकाधिगमे प्रान्तीयता (ग्रामीणनागर) इति चरस्य प्रभावपरिशीलनम् ।

अध्ययनस्य प्राक्कल्पना ( Hypothesis of Study)

  1. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरच्छात्रेषु कारकाणामधिगमे रेखीयाभिक्रमिताधिगमसामग्र्याः प्रभावः न स्यात् ।

  2. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरे कारकाणामधिगमे लिङ्गमितिचरस्य प्रभावः न स्यात् । 

  3. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ- उच्चमाध्यमिकस्तरे कारकाणामधिगमे शालाप्रकारः इति चरस्य प्रभावः न स्यात् । 

  4. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ- उच्चमाध्यमिकस्तरच्छात्रेषु कारकाधिगमे प्रान्तीयता (ग्रामीणनगर)   इति चरस्य प्रभावः न स्यात् ।

  5. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ- उच्चमाध्यमिकस्तरच्छात्रेषु कारकाधिगमे स्मृति-अवबोध-चिन्तनस्तरेषु पारम्परिकस्वाध्याय-अभिक्रमिताधिगमसामग्र्योः प्रभावे भेदः न स्यात् । 

अध्ययनस्य सीमाङ्कनम् (Limitations of Study)

    करिष्यमाणेऽस्मिन् अनुसन्धानकार्ये क्षेत्रविषयबहुलतां च मनसि निधाय विस्ताराधिक्यम् अनाचरय्य विषयस्य अध्ययनाय क्षेत्रसीमा अर्थात् परिमितिः काचिद् निर्धारिता वर्तते -

1. प्रस्तुताध्ययने कारकाणामधिगमाय चित्तः रेखीयाभिक्रमप्रविधिः उच्चमाध्यमिकस्तरच्छात्रेषु एव प्रयुक्तो भविष्यति ।

2.उच्चमाध्यमिकस्तरे नवमी-दशमीकक्षयोः अधीयानाच्छात्राः एव अध्ययनाय ग्रहिष्यन्ते ।

3.अध्ययनाय विविधपाठ्यक्रमाधारिताः उच्चमाध्यमिकपाठशालाः एव स्वीकृताः भविष्यन्ति ।

4.सर्वकारेणानुदानिता तथा च अनुदानेतरोच्च-माध्यमशालाश्च प्रयोगार्थं स्वीकृताः भविष्यन्ति ।

शोधविधिः(Method of Research)      प्रस्तुतशोधकर्मणि तस्य प्रकृतिम् आवश्यकतां क्षेत्रं  च मनसि निधाय अस्मिन् विषये प्रयोगात्मकविधेः एव प्रयोगः भविष्यति ।

अध्ययनस्य न्यादर्शः (Sample of Study)

    समयस्य धनस्य मानवशक्तेः साधनानाञ्च सदुपयोगितायाः प्रवर्तकः परिगण्यते न्यादर्शः । वैज्ञानिकाध्ययने न्यादर्शेण विना समस्यानां समाधानं भवितुं न अर्हति । अतः न्यादर्शानाम् अनुसन्धानकर्मणि विशिष्य शैक्षिकानुसन्धाने अन्यतमा भूमिका वर्तते ।

    राज्यशः भारतवर्षे शिक्षाजगति माध्यमिकशिक्षायां विविधता परिदृश्यते । अनुसन्धात्रा शोधाध्ययनाय चित्ते हिमाचलप्रदेशे माध्यमिकस्तरभेदानां विवरणमिदमित्थम्प्रकारेण वर्तते-

       

        षष्ठीतः अष्टमीकक्ष्यापर्यन्तम् - माध्यमिकस्तरः 

        षष्ठीतः दशमीकक्ष्यापर्यन्तम् - उच्चमाध्यमिकस्तरः

        षष्ठीतः द्वादशीकक्ष्यापर्यन्तम् - वरिष्ठमाध्यमिकस्तरः

हिमाचलप्रदेशे काङ्गडाजनपदे षष्ठीतः दशमीकक्ष्यापर्यन्तम् उच्चमाध्यमिकविद्यालयानां संख्यात्मकं विवरणम् -

        आहत्य (वर्ष-2012) उच्चमाध्यमिकविद्यालयाः  297 

        हिमाचलसर्वकारीया उ.मा.वि.(H.B.S.E) 65

        केन्द्रिय-स्कूलशिक्षाबोर्ड उ.मा.वि.(C.B.S.E) 41

        भारतीय-विद्यालय-शिक्षापरिषद् उ.मा.वि.(I.C.S.E) 3

        निजी-उ.मा.वि.(PRIVATE) 188 

    शोधकर्त्रा शोधाध्ययनाय उच्चमाध्यमिकस्तरे द्वे (नवमी-दशमी) कक्ष्ये स्वीकृते स्तः । अत्र दशमीकक्ष्या बोर्डकक्ष्या वर्तते । तत्र अनुसन्धानाध्ययनाय पूर्णतः अवकाशः न प्राप्येत । अतः शोधाध्ययनाय चिकार्षीत् । शोधार्थी     परीक्षणाय उच्चमाध्यमिकविद्यालयस्य द्विशतच्छात्रान् स्वीकरिष्यति । प्रायोगिकविधिना च छात्राणां परीक्षणं करिष्यति ।

न्यादर्शविवरणम् -

    उ. मा. वि. नाम                                                            छात्रसङ्ख्या

                                    बालकाः            बालिकाः

हिमाचलसर्वकारीया उ.मा.वि.(H.B.S.E)                 25            25

केन्द्रिय-स्कूलशिक्षाबोर्ड उ.मा.वि.(C.B.S.E)                 25            25

भारतीय-विद्यालय-शिक्षापरिषद् उ.मा.वि.(I.C.S.E)              25            25

निजी उ.मा.वि.(PRIVATE)                          25            25

एवं स्वीकृतानां न्यादर्शानामाधारेणैव शोधाध्ययनं सम्पत्स्यते ।


प्रयक्तोपकरणानि  ( Tools to be used ) 

    - रेखीयाभिक्रमयुतनिर्मिता कारकविषयिणी पाठ्यसामग्री ।

    - पूर्वोत्तरपरीक्षापत्रे ।

प्रदत्तानां संकलनम् (Data Collection)

    शोधकर्त्रा प्रश्नावल्या आधारेण प्रदत्तानामेकत्रीकरणम् एवञ्च संकलितरूपस्य विश्लेषणं करिष्यते ।

प्रदत्तानां विश्लेषणम् एवञ्च व्याख्या (Analysis of Data)

    प्रस्तुतेऽस्मिन् शोधकार्ये शोधकर्ता प्रदत्तानां सांख्यिकीयविधिभिः विश्लेषणं व्याख्यां च करिष्यति।

प्रयुक्तसांख्यिकीयविधयः(Use of Statistical Method)

    मध्यमानम्            (Mean)

    प्रामाणिकं विचलनम्        (Standard Deviation)

    टी.मूल्यपरीक्षणम्        (T-Value)

    स्तम्भाकृतयः            (Histograms)


निष्कर्षः(Finding)प्रदत्तानां विश्लेषणस्याधारेण निर्दिष्टानां परिकल्पनानां परीक्षणं प्रवर्तयिष्यते । परीक्षणस्याधारेण परिपृष्ट्यादिविषयाणां परिज्ञानं भविष्यति । अस्याधारेण च शोधकर्त्रा शोधस्य निष्कर्षः निष्कासयिष्यते  ।





शोधस्य प्रारूपम् (Design of Research)

प्रथमोऽध्यायः

        1.1 प्रस्तावना

        1.2 समस्याकथनम्

        1.3 शोधस्यावश्यकता

        1.4 शोधोद्देश्यानि

        1.5 शोधप्राक्कल्पना

        1.6 सीमाङ्कनम्

        1.7 पारिभाषिकशब्दावली

द्वितीयोऽध्यायः

        2.सम्बन्धितसाहित्यस्याध्ययनम् ।

तृतीयोऽध्यायः

        3.1 शोधप्रविधिः

        3.2 शोधन्यादर्शः

        3.3 शोधोपकरणानि

        3.4 प्रदत्तानां संकलनम् 

चतुर्थोऽध्यायः

        4.प्रदत्तानां सांख्यिकीयविधिभिः विश्लेषणं व्याख्या च ।

पञ्चमोऽध्यायः

        5.1 शोधसारांशः

        5.2 शोधनिष्कर्षः

        5.3 शोधपरामर्शः 

        5.4 भाव्यानुसन्धानम्

सन्दर्भग्रन्थसूची

परिशिष्टम्

प्रश्नावली