लोकप्रिय पोस्ट

रविवार, 6 जून 2021

संस्कृत-कार्यपत्रम्-1 कक्षा-६

                       कार्यपत्रम्

नाम-                             विषय अध्यापक का नाम -

कक्षा-           वर्ग-                 रोल नं.-

 

  1. दिये गये शब्दों को पढ़ो। नीले रंग से संस्कृत के शब्द वचनों के अनुसार दिए गए हैं। उन्हीं संस्कृत शब्दों का हिंदी अर्थ हरे रंग से उनके नीचे लिखा है।  संस्कृत भाषा में तीन वचन होते हैं एकवचन का मतलब जहां पर किसी वस्तु की संख्या 1 है। द्विवचन का मतलब जहां पर किसी वस्तु की संख्या 2 है और बहुवचन का मतलब है जहां पर कोई वस्तु तीन या उससे अधिक है।


एकवचन            द्विवचन                  बहुवचन

कपोतः              कपोतौ                    कपोताः

कबूतर             दो कबूतर             बहुत से कबूतर

मण्डूकः             मण्डूकौ                मण्डूकाः

मेढक               दो मेढक              बहुत से मेढक

कृषकः              कृषकौ                    कृषकाः

किसान           दो किसान             बहुत से किसान

वलिवर्दः          वलिवर्दौ                   वलिवर्दाः

बैल                 दो बैल                   बहुत से बैल

गायकः            गायकौ                      गायकाः

गायक             दो गायक               बहुत से गायक


प्रश्न. अब नीचे कुछ संस्कृत के शब्द और उनके अर्थ एकवचन में दिए जा रहे हैं। ऊपर की तालिका के अनुसार उन शब्दों के द्विवचन और बहुवचन रूप स्वयं से बनाएं और उनके हिंदी अर्थ भी लिखें।


एकवचन            द्विवचन                  बहुवचन

1.शिक्षकः           ……….                ………..

  अध्यापक          ……….                ………..

2.मयूरः              ……….                ………..

   मोर                ……….                ………..

3.बालकः           ……….                ………..

   बालक            ……….                ………..

4.चषकः            ……….                ………..

   गिलास            ……….                ………..

5.अर्चकः            ……….                ………..

   पुजारी            ……….                ………..



                                

प्रत्यभिज्ञा दर्शनविमर्श:| अशोक कुमार: विशिष्टाचार्य:

 https://drive.google.com/file/d/1JzeV_VRBvezgalabIbTen0xOzcwYm0FC/view?usp=drivesdk

प्राचीन वेदानुसारेण पर्यावरणस्य सम्प्रत्यानाम् अध्ययनम्।

।।प्राचीन वेदानुसारेण पर्यावरणस्य सम्प्रत्यानाम् अध्ययनम्।।

   श्री सरस्वती वाग् अधिष्ठात्री नमः।।
श्री सीतारामचरकमलेभ्यः नमः।।
शिक्षायाः स्वरूपम् –
    समग्रे प्राणिसंसारे मानवमहत्ता शिक्षयैव मन्यते। शिक्षादीप्तिदीपितः एव पुरुषः क्रेमेकोन्नतिमातमोतु। अगकनीयां योनिपरम्परामनुसेत्य स्वकर्मफलानुसारमेव जीवो मानवयोनिं प्राप्नोति। सहजतया मानवजन्मः न लभ्यते, मानवजन्म तु प्राक्कालिकजन्मजन्मारार्जितानां पुण्यनां फलमेवास्ति। यत् पुण्यं मानवजीवन – प्रदमुन्नतिकरञ्च कथ्यते तत्पुण्यं पुरूषे शिक्षयैव विद्यते। सम्पाद्यते च मानवानां निखिलमप्युन्नतिमयं जीवनं शिक्षाश्रियमेव वेद्यम्। वेदविद्यावता आद्यां स्मृतिपरम्परामुदन्मायता मनुना भुतेषु प्राणिनां प्राणिषु बुद्धिजीविनां, कृतबुद्धिषु कतृणां, कर्तृषु, ब्रह्मविदो श्रेष्ठता समाख्याता। तथाहि –
भुतानां प्राणिनः श्रेष्ठा प्राणिनां बुद्धिजीविनः। 
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्माणाः स्मृताः।
ब्राह्माकेषु च विद्वांसो विदवत्सु कृतबुद्धयः।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिन।
वेद शास्त्र – विज्ञानादीनां साध्वनुशीलने तत्त्वार्थज्ञानं च विद्येति। स्वीक्रियते - “अविद्यया मृत्यं तीर्त्वा विद्यत्राऽमृतमश्नुते” इति खलु वेदघोषः।
    सा विद्या एव प्रकृष्टा या विद्या मुक्तिं प्रददाति। उपनिषदाम् अनुसारेण द्वे विधाः परा अपरा च। यथा विद्यया लौकिकं ज्ञानं ज्ञायते, सा अपरा विद्या। यथा च अक्षर – ब्रह्माविषयकं ज्ञानं ज्ञायते, सा परा विद्या। लौकेऽस्मिन् विद्या एव तज्ज्योतिः यद् ज्ञायते, सा परा विद्या। लोकेऽस्मिन् विद्या एव तज्ज्योतिः यद् मानवे ज्ञानज्योतिं ज्वालयति, अविद्यान्धतमसं व्यपोहति, दुर्गकरणं वारयति, सद्गुकततिं संचारचति, कार्ति प्रथयति, गौरवं विकासयति, यशो वितनोति, भूभूत्सु च आदरम् आवहति। एषा मातृवत् संरक्षिका, पितृवत् सत्पथप्रदर्शिका, कान्तावत् सुखदामनोञ्जिका च, कार्तिप्रदा, वैभवदायिनी। दुगुणगणनाशेन मनसः पावयित्री च।
मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेवचाभिरमयत्यपनीय खेदम्।
लक्ष्मी तनोति वितनोति च दिक्षु कार्तिः किं किं न साध्यति कल्पलतेव विद्या।
                                    (निबन्धशतकम्)
शिक्षाया अर्थः –
    शिक्षायाः शाब्दिकार्थे शब्दस्य कोऽर्थः अभिप्रेत इत्यास्मिन् विषये चर्चा विधीयते। “शिक्ष – विद्योपादाने इत्यस्माद् भौवादिकधातोः”, “गुरोश्च हलः” इति राणिनीय सूत्रेण अ- प्रत्यये सति “अजाद्यतष्टाप” इति टापि शिक्षा इति शब्दाः निष्पद्यते। शिक्षाशब्देन प्रमुखतया विद्याग्रहणमेव ध्वन्यते। अपि च ‘शक्लृ - शक्तौ’ इत्यस्मात् सौवादिकधातोः सति प्रत्यये सति स्त्रियां पूर्ववदेव अ – प्रत्यये टापि च शिक्षा – शब्दो निष्पद्यते। परमनेन शब्देन अर्थाद्वयं निस्सरति। ‘शिक्षेर्जिज्ञासायाम् इति वार्तिकप्रमाणेन यदा अयं जिज्ञासावाची भवति। तदा विद्यासु शिक्षते इतिवत्। शब्दोऽयं जिज्ञायार्थकः भवति। यदा शक्तुमिच्छति इत्यर्थे शिक्षाशब्दः तदा अयं ग्रहीतुः सामर्थ्यप्रदायिवस्तु भवति। प्रकारान्तरेण त्रिष्वप्यर्थेषु विद्योपादाने जिज्ञासायां सामर्थ्यलाभे चायं शिक्षाशब्दः महान्तमर्थं प्रकृटयति। यतो हि विद्याग्रहणे जिज्ञासैव प्रवर्त्तयति विद्यार्थिनम्। ततः जिज्ञासया विद्यायाः ग्रहणे सति सामर्थ्यवर्धनं भवत्यैव।
 पर्यावरणसम्प्रत्ययः -
    परि+आवरणम् इत्याभ्यां प र्यावरणम् इति पदं निष्पन्नम्। परि इत्यस्य अर्थः भवति चतस्रः दिशः इति। आवरणम् इत्ययं शब्दः ‘अ’ इति उपसर्गपूर्वकम् वृञ् – वरणे इत्यस्मात् धातो ल्युट प्रत्ययान्तः वर्तते। अस्यार्थः आच्छादितम् इति। पर्यावरणम् इति पदस्य तात्पर्यार्थः भवति चतसृभिः दिग्भिः आच्छादितम् इति। परितः आवरणमेव पर्यावरणम्। अस्मान् परितः यानि तत्वानि विलसन्ति तानि सर्वाणि पर्यावरणम् इति नाम्ना व्यपदिश्यन्ते। यथा समीरः, आपः, अग्निः, वनस्पतिः, वृक्षः, खगः, जन्तुः, कीटः, मनुष्यः इत्यादयः। एतेषां समेषां तत्वानां समाहारः पर्यावरणम् भवति। 
जड़चेतनात्मके अस्मिन् जगति प्राणीमात्रस्य जीवनाय कतिचित् तत्त्वानि महदावश्यकानि सन्ति। यथोदर पोषणाय आहारः पिपासा शान्त्ये जलं निःश्वास - प्रश्वासाय वायुश्च एतानि जीवनावश्यकतायै अत्यन्तावश्यकानि तत्त्वानि। कतिपयः – कारणेभ्यः आधुनिकसंस्कृतिमये नाना जीवव्याप्ते पृथ्वीतले दोषपूर्णानि भवन्ति दृश्यन्ते प्रतीयन्ते च। हेतोरस्मात् पृथिव्यां निवसद्भिः प्राणिभिः सहैव वृक्षवनस्पतीनामपि जीवितत्वं काठिन्यं भजति। यथा खलु वयं जानीमः अनुभवामश्च जगदिदं स्थावरजंगमात्मकं तत् द्वन्दैः निर्मितं स्थितीकृतं चास्ति। एतेषु द्वन्देषु स्थिरीभूतेषु अस्याः सृष्टेः स्थिरता सभ्यात्यते नान्यथा। वस्तुतस्तु एषा द्वन्दात्मकता – जगत – सर्जनायाः महानतमनियमेषु अन्यतमा विद्यते। यदा चास्माभिः पर्यावरणं प्रति दृष्टिः निक्षिप्यते तदा अवबुध्यते तत् पर्यावरणदृशो प्राणिधारिभिः सह तदितरेषां वन - वृक्षसागरसरितां गहनम सामञ्जस्यं वर्तते। सम्प्रति विज्ञानेन सूक्ष्मस्थूलाध्ययनाभ्याम् अन्वेषणेन च परीक्ष्य तथ्यमिदं स्पष्टीकृतमस्ति यत् वृक्षवनस्पत्यादिभिः श्वसनप्रक्रियायां विसर्जितः ओषजन (आक्सीजन – अभिधानो वायु - विशेषः) श्वसद्भिः समस्तप्राणिभिः श्वसनक्रियायै ग्राह्यो अस्ति, यतः वायु विशेषोऽयं रक्तशोधेन परमाववश्यकः। वेदेषु बहवः मन्त्राः तादृशाः सन्ति ये खलु पूर्णतः पर्यावरणेन सम्बद्धा सन्ति। यथा एकस्मिन् मन्त्रे वैदिकः ऋषिः वनस्पतिं प्रार्थयति - “ओषधिः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः। अश्वाऽइव सजित्वरी व्वीरुधः पारयिष्णवः।।” (ऋग्वेद -4 )        
अन्यत्र च ऋषिः ओषधिं प्रार्थयति यत् - “त्वां गन्धर्व्वाऽअखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः। त्वामोषधे सोमो राजाव्विद्वान्यक्ष्मादमुच्यत्।।” अर्थात् हे ओषधेः त्वामिन्द्रः बृहस्पत्यादयः महान्तो देवा अद्नन् त्वत्प्रभावात् सोमाभिधः औषधीशः यक्ष्माद्यात् रोगात् विमुक्तः सञ्जातः इति।
पर्यावरणचक्रम्












पर्यावरण किम् –                                                  
        पृथिव्यां यस्मिन्भागे जीवधारिणी निवसन्ति तज्जीवमण्डतमित्युच्यते। जीवमण्डलस्य मापं प्रायः स्थिरमस्ति। श्रेत्रमिदमाधुनिक – वैज्ञानिक-दृष्ट्या पृथिवीतः प्रायः सप्तदश – क्रोशं (किलोमिटर) यावद् ऊर्ध्वं विस्तीर्णमस्ति। जीवमण्डले पृथिवी – वायु – जल – वृक्ष- वनस्पतयः सर्वे च जीवाः वसन्ति। प्राणिमण्डले पृथिवीवायुजलेन समुद्रोऽस्ति च एतानि त्रीण्यपि तत्त्वानि जीवनायावश्यकानि सन्ति।                     
           वेदा अस्माकमास्थायाः प्रतीकाः सन्ति। संस्कृतसाहित्यस्योद्गमस्थलाश्च संस्कृतेः सभ्यतायाः ज्ञानविज्ञानस्योन्नायकाः विधायकाश्च वेदाः। वेदेषु पर्यावरणमेव मानवस्य समग्रोन्नत्याः केन्द्रबिन्दुः वैदिकसाहित्यमस्ति। यद्यपि अल्पज्ञाः – मन्दमतयः वेदानां वैदिकप्रकृतिम् अनुसृत्य तस्य अर्थनिरूपणार्थे प्रयत्नं कृतवन्तः यस्मात् वेदानां वैज्ञानिकतायां प्रश्नचिह्नम् उद्भवति। ऋषिप्रणीतार्थानां प्रतिपादनं वैज्ञानिकतायाः पराकाष्ठा। लौकिक – वैदिकार्थानां भिन्नतां प्रदर्श्य वैदिकसाहित्यं यं मार्गमदर्शयत् तत् स्मरणीयमस्ति। पर्यावरणीया व्यवस्था वेदचतुष्टये येन केनाऽपि रूपेण लभ्यते किन्तु यजुर्वेदे मुख्यतः कर्मकाण्डस्य विषयत्वात् पूर्णं विवेचनं प्राप्यते। यजुर्वेदस्य प्रथमः मन्त्रः एव अस्य परिचायकः। अस्य वेदस्य एकस्मिन् मन्त्रे जगति व्याप्तकलानां वर्णनमस्ति यत्र पृथिव्याकाशवायु – अग्नीनां प्रतिपादनमस्ति। एतत् सर्व परमात्मना प्रजायाः प्रकाशाय विरचितम्। एताः षोडशकलाः सन्ति। यथा – 
ईक्षणं (यथार्थविचारः)।
प्राणः (वायु) यः विश्वं विभर्ति।
श्रद्धा (सत्ये विश्वासः)।
आकाशः।
वायुः।
 अग्निः।
जलम्।
पृथ्वी।
इन्द्रियाणि।
मनोज्ञानम्।
अन्नम्।
वीर्यम्।
तपः (धर्मानुष्ठान् - सत्याचारौ)।
मन्त्राः (वेदविधा)।
कर्माणि (सर्वचेष्टाः)।
नाम (अर्थात् दृश्यादृश्य पदार्थानां संज्ञा)।
           ऐतरेब्राह्माणे अपि उक्तमस्ति – ‘मनुष्यसमूहस्य सुखं यज्ञेन भवति।’ संस्कारितद्रव्याणां हवनेन विदुषे मानवाया आनन्दः प्राप्यते यतोहि परमार्थात् ईश्वरः परोपकारिणं नानाविधसुखैः तर्पयति।
       शतपथब्राह्मणेऽप्युक्तमस्ति यत् हवने यानि द्रव्यानि क्षिप्यन्ते तैः धूमः वाष्पश्च उत्पद्यते यतोहि अग्नेः स्वभावः पदार्थषु प्रविश्य छिन्नं भिन्नं करोति पश्यात् ते लघु भूत्वा वायुना सह आकाशे सह आकाशे व्याप्नुवन्ति।
‘अग्नेर्वैधूमो जायते धूमाद् भ्रमाद् वृष्टिरग्नेर्वा एता जायन्ते तस्मादांह तपोया इति।’
             ऋग्वेदे इन्द्रवृत्रासुरसूक्तं पर्यावरण – शिक्षायाः सुरक्षायाः च विषयः समेषाम् अवधानम् आकर्षयति। महर्षिः स्वकीये भाषार्थे वर्णनं सुन्दररूपेण कृतवान्। इन्द्र इति सूर्यस्य नाम, यः महान् पराक्रमी तेजोवान् चाऽस्ति। सः स्व – किरणैः वृत्रं अर्थात् मेघं हन्ति, स च मृतो भूत्वा पृथिव्यां पतति तां च व्याप्नोति तथा महद् इन्द्रियरूपेण परिपूर्णा भूत्वा समुद्रे मिलति, पुनः सूर्येण मेघरूपे व्याप्नोति। वृत्रस्य अस्मात् जलरूपशरीरात् बहव्यः नद्यः उत्पन्नाः भूत्वा अगाधे समुद्रे मिलन्ति, अवशिष्चं जलं कूपतडागादिजलाशयेषु विद्यते तत् मन्ये पृथिव्यां शेते इव।
ज्योतिषशास्त्रानुसारेण पर्यावरणस्य महत्त्वम् -             
   प्राचीनभारतीय – ज्यातिषशास्त्रे सूर्यचन्द्रादीनां ग्रहाणां पूज्यत्वेन स्वीकारः प्राचीनानां भारतीयानां पर्यावरणविषयकं चिन्तनं प्रस्तौति। शास्त्रेऽस्मिन्तेषां ग्रहाणां देवत्वमपि प्रतिष्ठापितम्। ज्योतिषशास्त्रे विशिष्ठ रूपेण ग्रहस्य विचारः क्रियते, एवं ग्रहा अनुसारेण पूर्णिमायां रात्रिसमये चन्द्रेणाकृष्णस्य सन्तुलयन्ति जलमुत्थानं प्राप्नोति तथा च कृष्णपक्षे यथायथं चन्द्रकलानाम् ह्रास्यः भवति। शुक्लपक्षे च यथायथं बृद्धिर्भवति तथा तथा सम्पूर्णेऽपि पर्यावरणे कश्चन विशिष्टः प्रभावो दरीदृश्यते। शुद्धं वातावरणं स्वस्थं च जीवनं सर्वविधस्य विकासस्य साधकं भवतीति विचिन्त्यैव संस्कृतसुकविभिर्वातावरणशुद्धिर्बहुधा तेन हि तेषां मनीषिणां पर्यावरणं प्रति जागरूकत्वं स्पष्टं परिलक्ष्यते। मातृवत् पृथिव्यां श्रद्धाभावो वेदेषु बदुधा प्रकाशितः – 
“माता भूमिः पुत्रोऽहं पृथिव्याः”
एवम्विधेषु मन्त्रेषु भूमण्डलेन मानवजातेः स्नेहमयः सम्बन्धः प्रदर्शितः।
         इमे कवयः पर्यावरणसंरक्षणविषयकज्ञानस्य धारां महर्षिभ्यः समासादितां स्वप्रज्ञाबलेन परिष्कृतवन्तः। अस्या परम्पराया निर्वाहः कालिदास – बाणभट्ट – भवभूति – प्रभृतिभिः परवर्तिभिः कवुभिरपि सम्यक्तया कृतः। इयमेव प्रकृतिः कालिदासस्य काव्येषु संश्लिष्टसौन्दर्यमुपस्थापयति। कविकुलगुरुः कालिदासः प्रकृतेः सूक्ष्मातिसूक्ष्ममपि पक्षं स्वसाहित्ये प्रकाशयति स्म। ऋतुसंहारे मेघदूते तथा च अभिज्ञानशाकुन्तले प्रकृतिवर्णनं सौन्दर्यततत्त्वैः सञ्जातमिति कल्पितम्। 

सारांशः –
            सम्प्रति चतुर्ष्वपि वेदेषु महत्वपूर्ण वर्णनमस्ति। तस्य कारणमिदमस्ति यज्ञ एव स विधिर्येन प्राकृतिकं सन्तुलनं स्थापयितुं, वायुमण्डलशोधनम्, विविधरोगविनाशः, शारीरिकी, मानसिकी, चोन्नतिः रोगनिवारणेन दीर्घायुष्यप्राप्तिश्च सम्भवति। यक्षेन भूप्रदूषणं जलप्रदूषणं, वायुप्रदूषणं, ध्वनिप्रदूषणञ्च निरोधयितुं शक्यतें एतस्मादेव कारणाद्वेदेषु यज्ञ – यागादीनां वर्णनं महत्वपूर्णेन विधिना कृतमस्ति।
वस्तुतः प्रकृतावेका चक्रव्यवस्था प्रचलति, येन प्रत्येकं पदार्थः स्वकीयं मूलस्थनवाप्नोति। एमस्मिन्नेवाधारे ऋतुचक्रम्, वर्षचक्रम्, अहोरात्रचक्रम्, सौरचक्रम्, चान्द्रचक्रादिकञ्च विविध चक्रम् प्रवर्तितं भवति। इदं प्राकृतिकं चक्रमेव पारिभाषिकशब्दावल्ल्यां यज्ञ इत्युच्यते। सोऽयं विश्वस्मिन् प्रतिक्षणं प्रचलति। यज्ञोऽयमस्य सृष्टिचक्रस्य नाभिरुक्तः। तद्यथा यजुर्वेदः – “अयं यज्ञो भुवनस्य नाभिः” इति गोपथब्राह्मणे वर्णितमस्ति। यदृतुसन्धानवेव व्याधिर्जायते। तस्मद्व्याधिशान्तये यज्ञोऽपि ऋतुसंन्धानमेव क्रियते। यथा – “भैषज्ययज्ञा वा एते, ऋतुसंन्धिषु प्रयुज्यन्ते, ऋतुसंन्धिषु वै व्याधिर्जायते” इति। यज्ञेषु प्रयुक्तानि द्रव्याणि – यज्ञेषु समिधा, घृतम् हव्यसामग्रयः स्थालीपाकादयश्च प्रयुज्यन्ते। अत ऐतेषां पदार्थानामुपयोगेन प्रकृतेः संतुलनम्, पर्यावरणस्यशोधविविधाधिव्याधिविनाशः, सर्वविधशान्तिसम्भवति।
 मानवसभ्यतायाः संरक्षणाय विकासाय हि पर्यावरणशिक्षा अत्यन्तमावश्यकी अस्ति। यतोहि पर्यावरणविषयिणी जागरूकता यदि मानवस्य एव न स्यात् तर्हि यूनान- मिस्र – रोम – बेबीलोन – हडप्पादयः सभ्यता प्रत्येकं क्षेत्रविशेषस्य च संस्कृतिः धूलिधुसरिता भविष्यति अतः मानवरूपप्राणिनः तत्सभ्यतायाः तत्संस्कृते च पल्लवनं मानवस्य आद्यं कर्तव्यम्। पर्यावरणस्य अस्यामेव विस्तृतभावनायां भूमण्डलाश्रितानि सर्वाणि तत्त्वानि अन्तर्भवन्ति येन मानवजीवनं प्रभावितं भवति।
        यदि वयं पर्यावरणं प्रति उपेक्षां करिष्यामः तर्हि विश्वमानवः विनाशस्य शिखरे प्रत्यासन्नो भविष्यति। पर्यावरणशिक्षया मानवः प्रकृतिं प्रायोन्मुखं भवति। प्रकृत्याः अनावश्यकदोहनस्य प्रतिफलात् ज्ञास्यति। यच्च मानवसंस्कृत्यै अमङ्गलकारी अस्ति। पर्यावरणशिक्षया – एव पर्यावरणपरिवेशे औचित्यानुगुणम् आमूल –चूल – परिवर्तनं कृत्वा परमाणुयुद्धस्य विभीषिकया मुक्तः भविष्यति। इयं हि शिक्षा मानवं समुचितान् नैतिकाञ्च मूल्यान् प्रति सचेतनान् कृत्वा विश्वमानवसंस्कृतेः विकासाय योगदानं कर्तुं शक्नोति। इत्थम् 
                                                                                       .....अशोक कुमार:
          शिक्षाचार्य:











    उपयुक्तग्रन्थसूची
     Bibliography

द्विवेदी, कपिलदेव, (2010) संस्कृतनिवन्धशतकम्, वाराणसी, विश्वविद्यालय प्रकाशन वाराणसी।
सक्सेना ए.बी, पर्यावरण शिक्षा, देहली, आर्यबुक डिपो देहली।
शास्त्री, रामानारायण, (1968) संस्कृतवाङ्मये पर्यावरण विज्ञानम्, संस्कृतमञ्जरी, विज्ञान- विशेषाङ्क, नवदेहली। देहलीसंस्कृत – अकादमी, वर्ष 8 अङ्क।
घिल्डियालऋ, विनीत, (2007) वैदिक वाङ्मयेपर्यावरण चिन्तनम् संस्कृतमञ्जरी, शोधपत्रिका, नवदेहली देहलीसंस्कृत- अकादमी। वर्ष 6 अङ्क।
पाठकः, कमलाकान्त, (2010) अग्निहोत्रेण पर्यावरण शोधनम्ष संस्कृतमंञ्जरी, शोधपत्रिका, नवदेहली, देहलीसंस्कृत – अकादमी, वर्ष 9 अङ्क 2
डा. मण्डन मिश्र, संस्कृत संस्कृति मञ्जरी, नाग प्रकाशन, नवदेहली।

शोधसंक्षिप्तिका शिक्षाचार्य (Synopsis M.Ed Sanskrit Medium)

श्लिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता ।

यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ।।

(मालविकाग्निमित्रम् 1/16)

शोधस्य पृष्ठभूमिः (Preface of Research)

    वेदाः सन्त्यानुसन्धातृभिः महर्षिभिरनुभूतस्य परमतत्त्वस्य बोधयितारो भूत्वा भुवि विभान्ति । यत्र प्रत्यक्षस्य न च अनुमानस्य प्रवेशस्तत्रापि ते प्रविशन्ति । एषामेव भारतीयसभ्यता-संस्कृतेश्चाधारमूलानां शिक्षा वर्तते षडङ्गेषु आद्यमङ्गमत्र । स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते च सा  शिक्षेति । वेदानां वैदिकसाहित्यस्य वा अध्ययनाध्यापनविषयकविधीनां निर्देशः शिक्षाशास्त्रे कृतः । शिक्षाशास्त्रेतिहासः पुरातनतरः वर्तते । संस्कृतवाङ्मये विशेषतः व्याकरणशिक्षणं प्रमुखं स्थानं भजते । प्रत्येकं भाषा तत्तद्वयाकरणनियमानुसारं स्वीयपरिधिनिर्माणपुरस्सरं विशिष्टां रूपरचनां सृजतीति स्पष्टमेव ।

    संस्कृतभाषा भाषास्वादिभाषा । यास्क-पाणिनि-पतञ्जलिप्रभृतीनां विद्वद्धौरेयाणां ग्रन्थाः संस्कृतभाषायाः लोकव्यवहृतेश्च सन्ति समुज्ज्वलानि ज्वलन्ति प्रमाणानि । भारतीयभाषासु सुरमणीया, सुललिता, मधुरा, सर्वप्राचीना चेयं संस्कृतभाषा कठिनेति मन्वानाः बहवः एतदध्ययनात् पराङ्मुखाः तिष्ठन्ति । तत्रैव एतदपि आश्चर्यभूतं दरीदृश्यते यत् सहस्रशः संस्कृतविद्वान्सः, सेवारताध्यापकाः, अध्येतारः, समर्पितजीवनाः संस्कृतप्रचारकाः छात्राः, बान्धवाः च अस्याः अभ्युत्थानाय अहर्निशं यतमानाः सन्ति । एतेषां प्रोत्साहनाय संस्कृतायोगः ऊर्जाबलं यथासमयं प्रयच्छत्येव । संस्कृतभाषाशिक्षणे विविधेषु आधुनिकेषु शिक्षाशास्त्रग्रन्थेषु सत्सु प्राविधिक-शास्त्रप्रतिपादिते अभिक्रमिताधिगमप्रविधिप्रतिपाद्यः रेखीयाभिक्रमिताधिगमः विषयेऽस्मिन् किञ्चिदनुसन्धाय तस्य व्याकरणांशाधिगमे कीदृशो प्रभावः भवतीति जिज्ञासया कारकाधिगमे रेखीयाभिक्रमस्य प्रभावेति समस्यामाहृत्य प्रयोगात्मकमनुसन्धानं विधास्यते ।

शोधक्षेत्रम् (Research Area)

अस्त्युत्तरां दिशमलङ्कुरुते प्रकामं हैमाचलः सकलपर्वतराजिराजः ।

स्थूलाङ्गतुङ्गशिखरावलिभिवृतो यः स्रग्भिर्यथा सुरसरितसुमजाभिरिन्द्रः ।।

महाहिमवन्तस्य उपत्यकासु वासकारणादस्य प्रदेशस्य नाम हिमाचलमिति अभूत् । हिमाचलप्रदेशस्य शाब्दिकार्थः भवति हिमावृतपर्वताभ्यन्तर्स्थितप्रदेशः इति प्रदेशोऽयं पर्वतराज्ञी, देवभूमिः, बुद्धभूमिश्चापि नामाख्याता वर्तते । 55673 वर्गकिलोमीटर्-परिमितो विस्तीर्णोऽयं देवभूमिति कथ्यमानः प्रदेशः 26 जनवरी,1971 तमे वर्षे पूर्णराजस्वमाप्नोत् । प्रदेशेऽस्मिन् द्वादशजनपदाः वर्तन्ते । एषु द्वादशसु जनपदेषु सर्वाधिके (297 संख्यात्मके) उच्चमाध्यमिकविद्यालययुते  अनुसन्धात्रा चित्ते काङ्गड़ाजनपदे  एव शोधाध्ययनं समपत्स्यते । 


शिक्षा (Education)

    संस्कृतभाषायां शिक्षा  इति पदस्य व्युत्पत्तिः शिक्ष् विद्योपादाने इति धातोः गुरोश्चहलः इति पाणिनिसूत्रेण अ प्रत्यये सति निष्पन्ना भवति । अस्यार्थो भवति विद्याग्रहणम्  इति (ऋग्वेदः)। वेदेषु सर्वत्र स्वरप्राधान्यं भवत्येव, स्वरभेदनार्थभेदसम्भवात् । इदं स्वरज्ञानं शिक्षाधीनं भवति । अतः शिक्षाशास्त्रस्य वेदाङ्गता सुतराम् उपपद्यते ।

माध्यमिकस्तरःMiddle Level माध्यमिक-शिक्षाऽऽयोगः1952-53( मुदालियरायोगः)

    अस्याध्ययनस्तरस्य संस्तुतिः भारतसर्वकारेण माध्यमिक-शिक्षाऽऽयोगाय प्रदत्ता अस्ति । अनेन आयोगेन अत्र माध्यमिकस्तरे शिक्षोद्देश्यानि परिष्कृतानि सन्ति । सामान्यतः आयोगस्यास्य निश्चितोऽयं स्तरः यत् षष्ठीकक्ष्यारभ्य दशमीकक्ष्यापर्यन्तं माध्यमिकस्तरः वर्तते । अस्य स्तरानुगुणं प्राचल्यमानस्य पाठ्यक्रमस्य एव अध्यापनं विद्यालयेषु अध्यापकः सम्पादयति ।

कारकम् ( Karakam)

    क्रियान्वयि कारकम् इति पाणिनिसम्मत्तम् । अर्थात् क्रियायाः अन्वयः क्रियान्वयः । अन्वयः नाम सम्बन्धः । क्रियान्वयः अस्तीति क्रियान्वयि । यः क्रियया अन्वेति (सम्बन्धं प्राप्नोति) सः कारकमित्युच्यते इति फलितार्थः । व्याकरणशास्त्रे कारकाणि षडविधानि निगदितानि -

कर्ता कर्म च करणं सम्प्रदानं तथैव च ।

आपादानाधिकरणम् इत्याहुः कारकाणि षट् ।। 

रेखीयाभिक्रमः(Linear Programme)

    रेखीयाभिक्रमः अर्थात् शिक्षणक्रमबद्धता । शृङ्खलाभिक्रम-बाह्यानुदेशनप्रभृतनामभिः बहुश्रुतः अयं सक्रिय-शिक्षणानुबद्धताक्रमः अभिक्रमिताधिगमहेतुः अनुदेशनप्रदायकः प्रकारविशेषो वर्तते । अभिक्रमितानुदेशनप्रक्रियायाम् अस्य एव प्रकारविशेषस्य शिक्षणे आद्यप्रयोगः शैक्षिकप्रविधौ उपादेयः प्रोक्तः । मनोवैज्ञानिकस्य श्रीमतःबी.एफ्.स्किनरमहोदयस्य नामोल्लेखः महत्तां भजते यः 1943 तमे वर्षे कपोतानामुपरि प्रयोगं विधाय अधिगमाय  सक्रियानुबन्धानुक्रियेति सिद्धान्तस्य प्रतिपादनमकरोत् । रेखीयाभिक्रमे विषयस्य लघुषु-लघुषु पदेषु विभाजनं क्रियते । एतेषु पदेषु त्रीणि तत्त्वानि निहितानि भवन्ति । उद्दीपन-अनुक्रिया-पुनर्बलनादयः इत्येते त्रयः बिन्दवः शिक्षणस्य सफलतां परिपोषयन्ति । रेखीयाभिक्रमे प्रस्तावनापद-शिक्षणपद-अभ्यासपद-परीक्षणपदञ्चेत्येते पाठनस्य पदविभागाः सन्ति । तन्त्रांशोपागमे यदा शिक्षायां बलं दीयमानमासीत् तदा स्वाध्यायसामग्रीनिर्माणे प्रयासः क्रियमाणः आसीत्  । तस्मिन्  स्किन्नरयोगदानपरिणामरूपः रेखीयाभिक्रमः स्वाध्यायसामग्रीनिर्माणप्रक्रमः सृष्टो वर्तते । प्रवर्तमानानेहसि उदाहरणत्वेन दूरस्थशिक्षणपाठ्यक्रमः एतदेव सिद्धान्ताधारितो वर्तते । मनोवैज्ञानिकसिद्धान्ताधारितेऽस्मिनभिक्रमे छात्राणां व्यक्तिगतविभिन्नताधारितं शिक्षणं, तार्किकक्रमेण, क्लिष्टविषयाणां बोधगम्यतासम्पादनं विशेषतया प्रवर्तते । 

समस्याकथनम् (Statement of the Problem)

    हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्च-माध्यमिकस्तरच्छात्राणां कारकाणामधिगमे रेखीयाभिक्रमस्य प्रभावः ।

अध्ययनस्य आवश्यकता महत्त्वञ्च (Need and Importance of Study )

    शिक्षाजगति संस्कृतवाङ्मये प्रमुखनामाख्यातस्य व्याकरणस्याध्ययनं विधिनानेन कर्तुं शक्यं न वा इत्यनया जिज्ञासया अनुसन्धाने प्रविधिरयं व्याकरणशिक्षणाय चितः। व्याकरणशास्त्रे विषयविशालतां परिदृश्य कारकं नाम्ना छात्रोपकारकः प्रचलितः विषयः अनुसन्धानाय चितः । उच्च-माध्यमिकस्तरे विषयस्यास्य अधिगमः छात्राणां न संभवति । अतः एतस्मै स्तराय कारकविषयः सुलभतरः भवेदिति मत्वा अयं प्रविधिः अनुसन्धानाय स्वीकारि ।

    अपि च यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणमिति भाषा शुद्धतायाः स्पष्टतायाः वा ज्ञानसम्पादनार्थम् अनुसन्धानविषयः परिकल्पितो वर्तते । यतः क्लिष्टमिदं व्याकरणशास्त्रं तस्मात् सुलभोपायाभावे संस्कृतव्याकरणांशाः सुकरतया अवगन्तुं शक्येति प्रतिपादयितुम् अध्ययनस्य आवश्यकता वर्तते नितराम् ।



अध्ययनस्योद्देश्यानि (Aims of Study) 

  1.  हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरे रेखीयाभिक्रमस्य प्रभावपरिशीलनम्  ।

  2. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरे रेखीयाभिक्रम-पाठ्यक्रमः कारकाधिगमं प्रभावयति न वा इति परीक्षणम् ।

  3. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरे स्वाध्यायेन छात्रेषु जायमानायाः अवबोधशक्तेः अध्ययनम् ।

  4. उच्चमाध्यमिकस्तरीयच्छात्रेषु कारकाधिगमार्थं रेखीयाभिक्रमाणां निर्माणम् ।

  5. उच्चमाध्यमिकस्तरे कारकाधिगमार्थं निर्मितानां रेखीयाभिक्रमाणां प्रामाणिकतासम्पादनम् । 

  6. उच्चमाध्यमिकस्तरे कारकाधिगमे लिङ्गमिति चरस्य प्रभावपरिशीलनम् ।

  7. उच्चमाध्यमिकस्तरे कारकाणामधिगमे शालाप्रकारः इति चरस्य प्रभावपरिशीलनम् ।

  8. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरच्छात्रेषु कारकाधिगमे प्रान्तीयता (ग्रामीणनागर) इति चरस्य प्रभावपरिशीलनम् ।

अध्ययनस्य प्राक्कल्पना ( Hypothesis of Study)

  1. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरच्छात्रेषु कारकाणामधिगमे रेखीयाभिक्रमिताधिगमसामग्र्याः प्रभावः न स्यात् ।

  2. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरे कारकाणामधिगमे लिङ्गमितिचरस्य प्रभावः न स्यात् । 

  3. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ- उच्चमाध्यमिकस्तरे कारकाणामधिगमे शालाप्रकारः इति चरस्य प्रभावः न स्यात् । 

  4. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ- उच्चमाध्यमिकस्तरच्छात्रेषु कारकाधिगमे प्रान्तीयता (ग्रामीणनगर)   इति चरस्य प्रभावः न स्यात् ।

  5. हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ- उच्चमाध्यमिकस्तरच्छात्रेषु कारकाधिगमे स्मृति-अवबोध-चिन्तनस्तरेषु पारम्परिकस्वाध्याय-अभिक्रमिताधिगमसामग्र्योः प्रभावे भेदः न स्यात् । 

अध्ययनस्य सीमाङ्कनम् (Limitations of Study)

    करिष्यमाणेऽस्मिन् अनुसन्धानकार्ये क्षेत्रविषयबहुलतां च मनसि निधाय विस्ताराधिक्यम् अनाचरय्य विषयस्य अध्ययनाय क्षेत्रसीमा अर्थात् परिमितिः काचिद् निर्धारिता वर्तते -

1. प्रस्तुताध्ययने कारकाणामधिगमाय चित्तः रेखीयाभिक्रमप्रविधिः उच्चमाध्यमिकस्तरच्छात्रेषु एव प्रयुक्तो भविष्यति ।

2.उच्चमाध्यमिकस्तरे नवमी-दशमीकक्षयोः अधीयानाच्छात्राः एव अध्ययनाय ग्रहिष्यन्ते ।

3.अध्ययनाय विविधपाठ्यक्रमाधारिताः उच्चमाध्यमिकपाठशालाः एव स्वीकृताः भविष्यन्ति ।

4.सर्वकारेणानुदानिता तथा च अनुदानेतरोच्च-माध्यमशालाश्च प्रयोगार्थं स्वीकृताः भविष्यन्ति ।

शोधविधिः(Method of Research)      प्रस्तुतशोधकर्मणि तस्य प्रकृतिम् आवश्यकतां क्षेत्रं  च मनसि निधाय अस्मिन् विषये प्रयोगात्मकविधेः एव प्रयोगः भविष्यति ।

अध्ययनस्य न्यादर्शः (Sample of Study)

    समयस्य धनस्य मानवशक्तेः साधनानाञ्च सदुपयोगितायाः प्रवर्तकः परिगण्यते न्यादर्शः । वैज्ञानिकाध्ययने न्यादर्शेण विना समस्यानां समाधानं भवितुं न अर्हति । अतः न्यादर्शानाम् अनुसन्धानकर्मणि विशिष्य शैक्षिकानुसन्धाने अन्यतमा भूमिका वर्तते ।

    राज्यशः भारतवर्षे शिक्षाजगति माध्यमिकशिक्षायां विविधता परिदृश्यते । अनुसन्धात्रा शोधाध्ययनाय चित्ते हिमाचलप्रदेशे माध्यमिकस्तरभेदानां विवरणमिदमित्थम्प्रकारेण वर्तते-

       

        षष्ठीतः अष्टमीकक्ष्यापर्यन्तम् - माध्यमिकस्तरः 

        षष्ठीतः दशमीकक्ष्यापर्यन्तम् - उच्चमाध्यमिकस्तरः

        षष्ठीतः द्वादशीकक्ष्यापर्यन्तम् - वरिष्ठमाध्यमिकस्तरः

हिमाचलप्रदेशे काङ्गडाजनपदे षष्ठीतः दशमीकक्ष्यापर्यन्तम् उच्चमाध्यमिकविद्यालयानां संख्यात्मकं विवरणम् -

        आहत्य (वर्ष-2012) उच्चमाध्यमिकविद्यालयाः  297 

        हिमाचलसर्वकारीया उ.मा.वि.(H.B.S.E) 65

        केन्द्रिय-स्कूलशिक्षाबोर्ड उ.मा.वि.(C.B.S.E) 41

        भारतीय-विद्यालय-शिक्षापरिषद् उ.मा.वि.(I.C.S.E) 3

        निजी-उ.मा.वि.(PRIVATE) 188 

    शोधकर्त्रा शोधाध्ययनाय उच्चमाध्यमिकस्तरे द्वे (नवमी-दशमी) कक्ष्ये स्वीकृते स्तः । अत्र दशमीकक्ष्या बोर्डकक्ष्या वर्तते । तत्र अनुसन्धानाध्ययनाय पूर्णतः अवकाशः न प्राप्येत । अतः शोधाध्ययनाय चिकार्षीत् । शोधार्थी     परीक्षणाय उच्चमाध्यमिकविद्यालयस्य द्विशतच्छात्रान् स्वीकरिष्यति । प्रायोगिकविधिना च छात्राणां परीक्षणं करिष्यति ।

न्यादर्शविवरणम् -

    उ. मा. वि. नाम                                                            छात्रसङ्ख्या

                                    बालकाः            बालिकाः

हिमाचलसर्वकारीया उ.मा.वि.(H.B.S.E)                 25            25

केन्द्रिय-स्कूलशिक्षाबोर्ड उ.मा.वि.(C.B.S.E)                 25            25

भारतीय-विद्यालय-शिक्षापरिषद् उ.मा.वि.(I.C.S.E)              25            25

निजी उ.मा.वि.(PRIVATE)                          25            25

एवं स्वीकृतानां न्यादर्शानामाधारेणैव शोधाध्ययनं सम्पत्स्यते ।


प्रयक्तोपकरणानि  ( Tools to be used ) 

    - रेखीयाभिक्रमयुतनिर्मिता कारकविषयिणी पाठ्यसामग्री ।

    - पूर्वोत्तरपरीक्षापत्रे ।

प्रदत्तानां संकलनम् (Data Collection)

    शोधकर्त्रा प्रश्नावल्या आधारेण प्रदत्तानामेकत्रीकरणम् एवञ्च संकलितरूपस्य विश्लेषणं करिष्यते ।

प्रदत्तानां विश्लेषणम् एवञ्च व्याख्या (Analysis of Data)

    प्रस्तुतेऽस्मिन् शोधकार्ये शोधकर्ता प्रदत्तानां सांख्यिकीयविधिभिः विश्लेषणं व्याख्यां च करिष्यति।

प्रयुक्तसांख्यिकीयविधयः(Use of Statistical Method)

    मध्यमानम्            (Mean)

    प्रामाणिकं विचलनम्        (Standard Deviation)

    टी.मूल्यपरीक्षणम्        (T-Value)

    स्तम्भाकृतयः            (Histograms)


निष्कर्षः(Finding)प्रदत्तानां विश्लेषणस्याधारेण निर्दिष्टानां परिकल्पनानां परीक्षणं प्रवर्तयिष्यते । परीक्षणस्याधारेण परिपृष्ट्यादिविषयाणां परिज्ञानं भविष्यति । अस्याधारेण च शोधकर्त्रा शोधस्य निष्कर्षः निष्कासयिष्यते  ।





शोधस्य प्रारूपम् (Design of Research)

प्रथमोऽध्यायः

        1.1 प्रस्तावना

        1.2 समस्याकथनम्

        1.3 शोधस्यावश्यकता

        1.4 शोधोद्देश्यानि

        1.5 शोधप्राक्कल्पना

        1.6 सीमाङ्कनम्

        1.7 पारिभाषिकशब्दावली

द्वितीयोऽध्यायः

        2.सम्बन्धितसाहित्यस्याध्ययनम् ।

तृतीयोऽध्यायः

        3.1 शोधप्रविधिः

        3.2 शोधन्यादर्शः

        3.3 शोधोपकरणानि

        3.4 प्रदत्तानां संकलनम् 

चतुर्थोऽध्यायः

        4.प्रदत्तानां सांख्यिकीयविधिभिः विश्लेषणं व्याख्या च ।

पञ्चमोऽध्यायः

        5.1 शोधसारांशः

        5.2 शोधनिष्कर्षः

        5.3 शोधपरामर्शः 

        5.4 भाव्यानुसन्धानम्

सन्दर्भग्रन्थसूची

परिशिष्टम्

प्रश्नावली

कविता- हम नन्हे मुन्ने हो चाहे पर नहीं किसी से कम





हम नन्हे मुन्ने हो चाहे पर नहीं किसी से कम|

आकाश तले जो फूल खिले वह फूल बनेंगे हम||

 बादल के घेरे में|

कुहरे के घेरे में|

भयभीत नहीं होंगे, 

घनघोर अंधेरे में|

हम दीपक भी हम सूरज भी तुम मत समझो शबनम|

अब जान गए यह नील गगन दिन-रात तपेंगे हम||1||

यह ऊंच-नीच क्या है? 

 यह जाति पात क्या है? 

 दीवार उठाने से, 

तो साथ छूटता है|

आंधी में भी उड़ता रहता इंसाफ बना परचम|

 इनकार करे संसार भले इंसान रहेंगे हम||2||

 आवाज देश की है, 

आशीष देश का है| 

आदेश हमें हो तो, 

यह शीश देश का है|

 जिसके आगे बेकार रहें दुनिया के एटम बम|

विश्वास भरी एक फौज नई तैयार करेंगे हम||3||

 हम नन्हे मुन्ने हो चाहे पर नहीं किसी से कम||*||

आकाश तले जो फूल खिले वह फूल बनेंगे हम||*||

मंगलवार, 31 दिसंबर 2019

कारक_प्रकरण

    कारक प्रकरण


कारक
सूत्र:- क्रियान्वयि कारकं
व्याख्या:- क्रिया के साथ जिसका प्रत्यक्ष संबंध हो, उसे कारक कहते हैं।
यथा:- राम संस्कृत पढता है ।
      रामः संस्कृतम् पठति । यहां राम और संस्कृत कारक है।
संस्कृत भाषा में छः कारक होते हैं--

१) कर्ता २) कर्म ३) करण ४) सम्प्रदान ५) अपादान ६) अधिकरण।

तथ्य:- सम्बन्ध और सम्बोधन कारक नहीं है,इसे मात्र विभक्ति माना जाता है। 

 विभक्ति:-
सूत्र:- संख्याकारकबोधयित्री विभक्ति:।
व्याख्या:- जो कारक और वचन विशेष का बोध कराये ,उसे विभक्ति कहते है।
दूसरे शब्दों में, जिसके द्वारा कारकों और संख्याओं को विभक्त किया जाता है उसे विभक्ति कहते हैं।
विभक्ति के प्रकार :-
विभक्तियाँ सात हैं - १.प्रथमा  २.द्वितीया ३.तृतीया ४.चतुर्थी ५.पंचमी ६.षष्ठी ७.सप्तमी ।
कारक के नाम      चिह्न            विभक्ति
   कर्ता                 ने                 प्रथमा 
   कर्म                 को।               द्वितीया
   करण            से,【द्वारा】       तृतीया
  सम्प्रदान          को, के लिए        चतुर्थी
  अपादान          से ,【अलग】    पंचमी
  सम्बन्ध          का,के,की,रा,रे,री    षष्ठी
 अधिकरण           में ,पर              सप्तमी।

 कर्ता कारक
.सूत्र:- क्रियासम्पादकः कर्ता।
व्याख्या:- क्रिया का सम्पादन करने वाले को कर्ता कारक कहते हैं। कर्ता कारक का चिह्न  "ने " है।
यथा:-  वह किताब पढता है।  सः पुस्तकम् पठति।
         राधा गीत गाती है । राधा गीतं गायति।
यहाँ सः और राधा कर्ता कारक है ।

.सूत्र:- कर्तरि प्रथमा
व्याख्या:- कर्ता कारक में प्रथमा विभक्ति होती है।
यथा:- राम स्कूल जाता है। रामः विद्यालयम् गच्छति।
यहाँ रामः में प्रथमा विभक्ति है ,क्योंकि राम कर्ता कारक है ।

३.सूत्र:- प्रातिपदिकार्थमात्रे प्रथमा
व्याख्या:- किसी भी शब्द का अर्थ-मात्र प्रकट करने के लिए प्रथमा विभक्ति का प्रयोग किया जाता है।
यथा :- जनः (आदमी), लोकः (संसार), फलम् (फल), काकः (कौआ) आदि।

४.सूत्र :- उक्ते कर्तरि प्रथमा
व्याख्या :- कर्तृवाच्य (Active Voice)में जंहाँ कर्ता पद "कहा गया" रहता है वहाँ उसमे प्रथमा विभक्ति होती है।
यथा:- राम घर जाता है । रामः गृहम् गच्छति। 

५.सूत्र:- सम्बोधने च
व्याख्या :- सम्बोधन में भी प्रथमा विभक्ति होती है।
यथा :- हे_राम ! यहाँ आओ। हे_राम! अत्र आगच्छ ।

६.सूत्र:-अव्यययोगे प्रथमा
व्याख्या :- अव्यय के योग में प्रथमा विभक्ति होती है ।
यथा :- मोहन  कहाँ  है? मोहनः कुत्र अस्ति? 
यहाँ मोहन कर्ता नहीं है फिर भी कुत्र अव्यय होने के कारण मोहन में प्रथमा विभक्ति का प्रयोग हुआ ।

७.सूत्र:-उक्ते कर्मणि प्रथमा
व्याख्या:- कर्मवाच्य (Passive Voice) में जहाँ कर्ता पद "कहा गया" रहता है , वहाँ उसमे प्रथमा विभक्ति होती है।
यथा :- (क)राम के द्वारा घर जाया जाता है। रामेण गृहम् गम्यते।(ख)तुझसे साधु की सेवा की जाती है। त्वया साधुः सेव्यते। आदि।

कर्म कारक
१.सूत्र:- कर्तुरीप्सिततमम् कर्मः
व्याख्या:- कर्ता की अत्यंत इच्छा जिस काम को करने में हो उसे कर्म कारक कहते हैं।
          या, क्रिया का फल जिस पर पड़े, उसे कर्म कारक कहते हैं।
                कर्म कारक का चिह्न "को" है।
यथा :- रमेश फल खाता है । रमेशः फलम् खादति।
           मोहन दूध पिता है । मोहनः दुग्धं पिबति।
यहाँ फलम् और दुग्धं  कर्म कारक है क्योंकि फल भी इसीपर पर रहा है और कर्ता की भी अत्यन्त इच्छा भी इसी काम को करने में है।

२.सूत्र:- कर्मणि द्वितीया
व्याख्या :- कर्म कारक में द्वितीया विभक्ति होती है।
यथा:- गीता चन्द्रमा को देखती है। गीता चंद्रम् पश्यति।
          मदन चिट्ठी लिखता था । मदनः पत्रं लिखति।
यहाँ चंद्रम् और पत्रं में द्वितीया विभक्ति है,क्योंकि ये दोनों कर्म कारक हैं।

३.सूत्र:-क्रियाविशेषणे द्वितीया
व्याख्या:- क्रिया की विशेषता बताने वाले  अर्थात् क्रियाविशेषण (Adverb) में द्वितिया विभक्ति होती है।
      क्रियाविशेषण- तीव्रम् , मन्दम् ,मधुरं आदि। 
यथा:- (क) बादल धीरे-धीरे गरजते है। मेघा: मन्दम्-मन्दम् गर्जन्ति। (ख) प्रकाश मधुर गाता है। प्रकाशः मधुरं गायति।(ग)वह जल्दी जाता है। सः शीघ्रं गच्छति।आदि

४.सूत्र:-अभितः परितः सर्वतः समया निकषा प्रति संयोगेऽपि द्वितिया
व्याख्या :-उभयतः,अभितः(दोनों ओर), परितः (चारों ओर), सर्वतः (सभी ओर), समया( समीप), निकषा (निकट), प्रति (की ओर) के योग में द्वितिया विभक्ति होती है।
यथा:-(क) गाँव के दोनों ओर पर्वत हैं। ग्रामं अभितः पर्वताः सन्ति ।(ख) विद्यालय के चारों ओर नदी है। विद्यालयम् परितः नदी अस्ति। (ग) घर के सब ओर वृक्ष हैं। गृहम् सर्वतः वृक्षाः सन्ति। (घ) तुम्हारे घर के समीप  मंदिर है। गृहम् समया मन्दिरं अस्ति। (ङ) मंदिर की ओर चलो। मन्दिरं प्रति गच्छ। आदि

५.सूत्र:- कालाध्वनोरत्यन्तसंयोगे द्वितिया
व्याख्या :- कालवाचक और मार्गवाचक शब्दों में यदि क्रिया का अतिशय लगाव या व्याप्ति हो तो द्वितिया विभक्ति होती है।
यथा :- कोस भर नदी टेढ़ी है। क्रोशम् कुटिला नदी ।
        मैं महीने भर  व्याकरण पढ़ा। अहम् मासं व्याकरणं अपठम्।

६. सूत्र:- विना योगे द्वितिया
व्याख्या:- "विना" के योग में द्वितिया विभक्ति होती है।
यथा :-(क) परिश्रम के बिना विद्या नहीं होती ।
                परिश्रमम् विना विद्या न भवति ।
          (ख) धन के बिना लाभ नहीं होता।
                 धनम् विना लाभं न भवति । आदि।
                               

 करण कारक
१.सूत्र:-साधकतमं करणं
व्याख्या:- क्रिया को करने में जो अत्यंत सहायक हो, उसे करण कारक कहते हैं।
            करण कारक का चिह्न "से (द्वारा)" है।
यथा:- (क.)राम ने रावण को तीर से मारे।
          रामः रावणं वाणेन  हतवान्।
          (ख).वह मुख से बोलता है। सः मुखेन वदति।
यहाँ मारने में "तीर" और बोलने में "मुख" सहायक है, इसलिए दोनों में करण कारक होगा।

२.सूत्र:- करणे तृतीया
व्याख्या:- करण कारक में तृतीया विभक्ति होती है।
यथा:-(अ). मैं कलम से लिखता हूँ। अहम् कलमेन लिखामि।
         (ब.) राजा रथ से आते हैं । राजा रथेन आगच्छति।
यहाँ "कलमेन" और "रथेन" करण कारक है इसलिए दोनों में तृतीया विभक्ति होई।

३.सूत्र:- सहार्थे तृतीया
व्याख्या:- "सह (साथ)" शब्दों के योग में तृतीया विभक्ति होती है। (सह, साकम्, सार्धम् समम्=साथ)
यथा:- (a.)राम के साथ सीता वन गई।
         रामेण सह सीता वनम् अगच्छत।
         (b.) रमेश मित्र के साथ खेलता है ।
          रमेशः मित्रेन् सह क्रीडति।
        (c.)मैं सीता के साथ जाता हूँ।
         अहम् सीतया सार्धम् गच्छामि। आदि

४.सूत्र:- अपवर्गे तृतीया
व्याख्या:- अपवर्ग अर्थात् कार्य समाप्ति या फल प्राप्ति के अर्थ में कालवाचक और मार्गवाचक शब्दों में तृतीया विभक्ति होती है।
यथा:- (अ)वह एक वर्ष में व्याकरण पढ़ लिया।
          सः वर्षेण व्याकरणं अपठत्। (कालवाचक)
          (ब)मैंने तीन कोस में कहानी कह दी।
             अहम् क्रोशत्रयेण कथां अकथयम्।

५.सूत्र:-हेतौ तृतीया
व्याख्या:- हेतु या कारण का अर्थ होने पर तृतीया विभक्ति होती है।
यथा:- वह कष्ट से रोता है। सः कष्टेन रोदिति।
        लड़का हर्ष से हँसता है। बालकः हर्षेण हसति।

६.सूत्र:-ऊनवारणप्रायोजनार्तेषु तृतीया
व्याख्या:- ऊन(हीन) ,वारण (निषेध) और प्रयोजनार्थक  शब्दों में तृतीया विभक्ति होती है।
यथा:- 1. एक कम - एकेन हीनः।
         2. कलह मत करो- कलहेन अलम्।
         3. राम के समान - रामेण तुल्यः।
         4. कृष्ण के समान - कृष्णेन सदृशः। आदि

७.सूत्र:-येनाङ्गविकारः
व्याख्या:-जिस अंगवाचक शब्दों से विकार का ज्ञान प्राप्त हो , उस विकार रूपी अंग में तृतीया विभक्ति होती है।
यथा:- मोहन पैर से लाँगड़ा है। मोहनः पादेन खञ्जः।
       सीता पीठ से कुबड़ी है । सीता पृष्ठेन कुब्जा ।
       वह आँख से अँधा है। सः नयनाभ्याम् अंधः।
       सुरेश कान से बहरा है। सुरेशः कर्णाभ्याम् बधिरः।

८.सूत्र:-इत्थंभूत लक्षणे तृतीया
व्याख्या:- जिस लक्षण विशेष से कोई वस्तु या व्यक्ति पहचानी जाती हो , उस लक्षणविशेष वाले शब्दों में तृतीया विभक्ति होती है।
यथा:-     1.वह जटाओं से तपस्वी मालुम पड़ता है।
             सः जटाभिः तापसः प्रतीयते।
             2.सोहन चन्दन से ब्राह्माण मालुम पड़ता है।
             सोहनः चंदनेन ब्राह्मणः प्रतीयते।

९.सूत्र:-अनुक्ते कर्तरि तृतीया
व्याख्या:- कर्मवाच्य और भाववाच्य में कर्ता में तृतीया विभक्ति होती है।
यथा:-(अ) राम के द्वारा रावण मारा गया।
          रामेण रावणः हतः।
        ( ब) मेरे द्वारा हंसा गया।
            मया हस्यते।
                        

 सम्प्रदान कारक

१.सूत्र:- कर्मणा यमभिप्रैति स सम्प्रदानं
व्याख्या:- जिसके लिए कोई क्रिया (काम )की जाती है, उसे सम्प्रदान कारक कहते है।
दूसरे शब्दों में- जिसके लिए कुछ किया जाय या जिसको कुछ दिया जाय, इसका बोध कराने वाले शब्द के रूप को सम्प्रदान कारक कहते है। 
          इसकी विभक्ति चिह्न'को' और 'के लिए' है।
यथा:- (क).माता बालक को लड्डू देती है।
                माता बालकाय मोदकम् ददाति ।
          (ख).राजा ब्राह्मण को वस्त्र देते हैं।
                  राजा  विप्राय वस्त्रं ददाति।

२. सूत्र:-सम्प्रदाने चतुर्थी
व्याख्या:- सम्प्रदान कारक में चतुर्थी विभक्ति होती है।
यथा:- वह गरीबों को अन्न देता है।
         सः निर्धनेभ्यः अन्नम् ददाति ।
यहाँ गरीब के लिए क्रिया की जाती है और साथ हीं गरीब को अन्न भी दिया जा रहा है इसलिए यह सम्प्रदान कारक है और सम्प्रदान कारक होने के कारण "गरीब" में चतुर्थी विभक्ति हुआ ।

३.सूत्र:- रुच्यार्थानां प्रीयमाणः
व्याख्या:-  "रुच्" (अच्छा लगना) धातु के योग में जिस व्यक्ति को कोई चीज अच्छी लगती हो , उस अच्छी लगने वाले वास्तु में चतुर्थी विभक्ति होती है।
यथा:- मुझे मिठाई अच्छी लगती है।
       मह्यम् मिष्ठानं रोचते ।
          गणेश को लड्डू पसंद है।
         गणेशाय मोदकम् रोचते ।
          हरि को भक्ति अच्छी लगती है।
       हरये भक्तिः रोचते।

४.सूत्र:- नमः स्वस्तिस्वाहास्वधाsलंवषट् योगाच्च
व्याख्या:- नमः(प्रणाम), स्वस्ति (कल्याण हो), स्वाहा ,स्वधा (समर्पित), अलम् (पर्याप्त), आदि के योग में चतुर्थी विभक्ति होती है।
यथा:- सरस्वती को प्रणाम । सरस्वत्यै नमः।
          शिव को नमस्कार । शिवाय नमः।
         लोगों का कल्याण हो । जनेभ्यः स्वस्ति।
         गणेश को समर्पित । गणेशाय स्वाहा ।
         पितरों को समर्पित । पितरेभ्यः स्वस्ति।
राम रावण के लिए पर्याप्त हैं। रामः रावणाय अलम्।

५.सूत्र:-  क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः
व्याख्या:- क्रुध्, द्रुह्, ईर्ष्या,असूया अर्थवाची क्रियाओं के योग में जो इनका विषय होता है उसमें चतुर्थी विभक्ति होती है।
यथा:- 1.मालिक नौकर पर क्रोध करता है।
         स्वामी भृत्याय क्रुध्यति।
       2.  वेलोग रमेश से द्रोह करता है।
         ते रमेशाय द्रुह्यन्ति/ आसूयन्ति/ इर्ष्यन्ति।
 
अपादान कारक 

1.सूत्र:- ध्रुवमपायेऽपादानम्
व्याख्या:- जिस निश्चित स्थान से कोई वस्तु या व्यक्ति अलग होती है, उस निश्चित स्थान को अपादान कारक कहते हैं।
        अपादान कारक का विभक्ति चिह्न  "से ( अलग)" होता है।
 यथा :- 1.वह घर से आता है।  सः गृहात् आगच्छति ।
2.पेड़ से पत्ते गिरते हैं। वृक्षात् पत्राणि पतन्ति।
यहाँ "गृहात्"और "वृक्षात्" अपादान कारक है ,क्योंकि ये दोनों निश्चित स्थान है जिससे क्रमशः व्यक्ति और वस्तु अलग हो रही है।

२.सूत्र:- अपादाने पंचमी
व्याख्या:- अपादान कारक में पंचमी विभक्ति होती है।
यथा:- क्षेत्रपाल खेत से गाय हाँकता है।
 क्षेत्रपालः क्षेत्रात् गाः वारयति।

३.सूत्र:-बहिर्योगे पंचमी
व्याख्या:- बहिः (बाहर) अव्यय के योग में पञ्चमी विभक्ति होती है।
यथा:-1. गृहात् बहिः वाटिका अस्ति ।घर के बहार बगीचा है। ,
2.सः गृहात् बहिर् गतः। 
वह घर से बाहर गया। आदि।

४.सूत्र:- ऋते योगे पंचमी
व्याख्या:-  ऋते के योग में भी पंचमी विभक्ति होती है।
यथा:-
1. ज्ञानात् ऋते न मुक्तिः । ज्ञान के बिना मुक्ति नहीं।
2.कृष्णात् ऋते न सुखम् । कृष्ण के बिना सुख नहीं।

५.सूत्र:- भित्रार्थानां भयहेतुः
व्याख्या:- भी( डरना) और त्रा (बचाना) धातु के योग में जिससे भय या रक्षा की जाए ,उसमे पंचमी विभक्ति होती है।
यथा:- 1.मोहन साँप से डरता है। मोहनः सर्पात् विभेति।
2.गुरु शिष्य को पाप से बचाते हैं। गुरु शिष्यं पापात् त्रायते।

६. सूत्र:-अख्यातोपयोगे पंचमी
व्याख्या:- जिससे नियमपूर्वक विद्या सीखी जाती है , उसमे पंचमी विभक्ति होती है।
यथा:-1. वह मुझसे व्याकरण पढता है। सः मत् व्याकरणं अधीते।
2.वह राम से कथा सुनता है। सः रामात् कथां शृणोति।

७.सूत्र:- भुवः प्रभवः च।
व्याख्या:- "भू" धातु के योग में जंहाँ से कोई चीज उत्पन्न होती है, उसमें पंचमी विभक्ति होती है।
यथा:- गंगा हिमालय से निकलती है।
 गंगा हिमालयात् प्रभवति।

८.सूत्र:- अपेक्षार्थे पञ्चमी
व्याख्या:- तुलना में  जिसे श्रेष्ठ बनाया जाए उसमे  पंचमी विभक्ति होती है।
यथा:- 1.माता और मातृभूमि स्वर्ग से भी बढ़कर है।
    जननी जन्मभूमिश्च स्वर्गादपि गरियसि।
   2.विद्या धन से  बढ़कर है।विद्या धनात् गारीयसि।

९.सूत्र:- पर पूर्व योगे पंचमी
व्याख्या:-परः(बाद में होने वाला) तथा पूर्व: (पहले होने वाला) के योग में पंचमी विभक्ति होती है।
यथा:- चैत्रः वैशाखात् पूर्व:। वैशाखः चैत्रात् परः। आदि।

 अधिकरणकारक

२.सुत्र:-आधारोऽधिकरणः -
व्याख्या:- क्रिया का जो आधार  हो उसे अधिकरण कारक कहते हैं।
यथा:- 3.वह भूमि पर सोता है। सः भूमौ शेते।
         2.लड़के विद्यालय में पढ़ते हैं। 
            बालकाः विद्यालये पठन्ति ।
         3. मैं नदी में तैरता हूँ । अहम् नद्याम् तरामि।

२. सूत्र:- अधिकरणे सप्तमी
व्याख्या:- अधिकरण कारक में सप्तमी विभक्ति होती है।
यथा:-1. वेलोग गांव में रहते हैं। ते ग्रामे वसन्ति।
         2.सिंह वन में घूमता है। सिंहः वने भ्रमति ।
         3. मैं 10 बजे स्कुल जाता हूँ । 
             अहम् दशवादने विद्यालयं गच्छामि।
       4. राम सुबह मे 5 बजे उठता है।
           रामः प्रातःकाले पंचवादने उतिष्ठति। 

३.सूत्र:- निर्धारणेसप्तमी
व्याख्या:- अधिक वस्तुओं या व्यक्तियों में किसी एक की विशेषता बताने पर , उस एक में सप्तमी विभक्ति होती है।
यथा:- 1. कवियों में कालिदास श्रेष्ठ है।
              कविषु कालिदासः श्रेष्ठः ।
           2.  जीवों में मानवलोग  श्रेष्ठ हैं।
                 जीवेषु मानवाः श्रेष्ठा: ।
          3.  फूलों में कमल श्रेष्ठ  है।
                  पुष्पेषु कमलं श्रेष्ठम् ।
          4. ऋषियों में वाल्मीकि श्रेष्ठ हैं ।
              ऋषिषु वाल्मीकिः श्रेष्ठः।

४.सूत्र:-कुशलनिपुणप्रविनपण्डितश्च योगे सप्तमी
  व्याख्या:- जिसमें कार्य में  कोई व्यक्ति कुशल , निपुण ,प्रवीण , पंडित हो उसमें सप्तमी विभक्ति होती है।
यथा:- 1.मेरा दोस्त गाड़ी चलाने में कुशल है।
         मम मित्रः वाहनचालने कुशलः।
         2.कृष्ण वंशी बजाने में प्रवीण हैं ।
         श्री

कृष्णः वंशीवादने प्रवीणः।
         3. अर्जुन धनुर्विद्या में निपुण है।
          अर्जुनः धनुर्विद्यायाम् निपुणः।
        4. मेरी पत्नी खाना बनाने में कुशल है।
           मम भार्या भोजनस्य पाचने  कुशला ।
        5. मोहन शास्त्र का  पंडित है।
          मोहनः शस्त्रे पण्डितः अस्ति ।

५.सूत्र:-अभिलाषानुरागस्नेहासक्ति योगे सप्तमी
व्याख्या:- जिसमें मनुष्य की अभिलाषा ,अनुराग, स्नेह या आसक्ति हो उसमें सप्तमी विभक्ति होती हैं।
यथा:- 1.बालकस्य आम्रफले अभिलाषः।
          2.मम संस्कृत आसक्तिः । 
          3.धेनो: वत्से स्नेहः ।
          4.प्रजानां राज्ञि अनुरागः। आदि

 सम्बन्ध कारक

१.सूत्र:-षष्ठी शेषे
व्याख्या:- कारक और शब्दों को छोड़कर अन्य सम्बन्ध "शेष" कहलाते हैं।
           सम्बन्ध कारक में षष्ठी विभक्ति होती है।
यथा:- 1.राजा का महल - नृपस्य भवनं ।
          2. राम का पुत्र - रामस्य पुत्रः ।

२.सूत्र:- षष्ठी हेतु प्रयोगे
व्याख्या:- "हेतु" शब्द का प्रयोग होने पर कारणवाची शब्द और "हेतु" शब्द दोनों में ही षष्ठी विभक्ति होती है ।
यथा:-  1.वह अन्न के लिए रहता है। सः अन्नस्य हेतोः वसति।
          2. "अल्पस्यहेतोर्बहु हातुमिच्छन् , 
           विचारमुढ: प्रतिभासि में त्वम्।"
         (छोटी सी चीज के लिए बहुत बड़ा त्याग कर रहे       हो ,मेरी समझ में तुम मुर्ख हो।)

३.सूत्र:- षष्ठी चानादरे
व्याख्या:- जिसका अनादर करके कोई काम किया जाय उसमें षष्ठी विभक्ति और सप्तमी विभक्ति होती  है।
यथा:-  गुरोः पश्यत छात्रः कक्षतः बहिः अगच्छत्।
          रुदतः शिशो: माता बहिः अगच्छत्।

४.सूत्र:- निर्धारणे षष्ठी। 
व्याख्या :- अनेक वस्तुओं अथवा व्यक्तियों  में जिसको श्रेष्ठ या विशेष बताया जाए उसमे षष्ठी विभक्ति होती है।
यथा:- १. बालकों में रवि श्रेष्ठ है । बालकानाम् रवि श्रेष्ठ:।
         २ कवियों में कालिदास श्रेष्ठ हैं । 
             कविषु कालिदासः श्रेष्ठ: ।
          ३.फूलों में कमल श्रेष्ठ है । पुष्पानां श्रेष्ठं कमलं।

५. सूत्र:- षष्ठ्यतसर्थम्प्रत्ययेन षष्ठी
व्याख्या :- " तस्" प्रत्यायन्त शब्दों  (पुरतः ,पृष्ठतः, अग्रतः, उपरी, अधः,पूर्वतः, पश्चिमतः , दक्षिणतः ,वामतः ,अंतः  आदि) के योग में षष्ठी विभक्ति होती है।
यथा:- १.भारतस्य दक्षिणतः विवेकानन्दस्मारकः अस्ति।
         २. भारतस्य उत्तरतः हिमालयः विराजते ।
         ३. भूमेः अधः जलं अस्ति ।
         ४. सैनिकस्य वामतः नेता अस्ति।
         ५. पर्वतस्य पुरतः मेघा: गर्जन्ति।
        ६. फलस्य अंतः बिजानि सन्ति ।

६. सूत्र:- कर्तृ कर्मणो: कृतिः।
व्याख्या:- कृदन्त शब्द के योग में कर्ता और कर्म में षष्ठी होती है।
यथा:- 1.कृष्णस्य कृतिः( कृष्ण का कार्य)
          2.वेदस्य अध्येता ( वेद पढ़नेवाला )।।      

शनिवार, 28 दिसंबर 2019

उन्नीस ऊंटों की कहानी

19 ऊंट की कहानी

एक गाँव में एक व्यक्ति के पास 19 ऊंट थे। 

एक दिन उस व्यक्ति की मृत्यु हो गयी। 

मृत्यु के पश्चात वसीयत पढ़ी गयी। जिसमें लिखा था कि:

मेरे 19 ऊंटों में से आधे मेरे बेटे को,19 ऊंटों में से एक चौथाई मेरी बेटी को, और 19 ऊंटों में से पांचवाँ हिस्सा मेरे नौकर को दे दिए जाएँ।

सब लोग चक्कर में पड़ गए कि ये बँटवारा कैसे हो ?

19 ऊंटों का आधा अर्थात एक ऊँट काटना पड़ेगा, फिर तो ऊँट ही मर जायेगा। चलो एक को काट दिया तो बचे 18 उनका एक चौथाई साढ़े चार- साढ़े चार. फिर?

सब बड़ी उलझन में थे। फिर पड़ोस के गांव से एक बुद्धिमान व्यक्ति को बुलाया गया।

वह बुद्धिमान व्यक्ति अपने ऊँट पर चढ़ कर आया, समस्या सुनी, थोडा दिमाग लगाया, फिर बोला इन 19 ऊंटों में मेरा भी ऊँट मिलाकर बाँट दो।

सबने सोचा कि एक तो मरने वाला पागल था, जो ऐसी वसीयत कर के चला गया, और अब ये दूसरा पागल आ गया जो बोलता है कि उनमें मेरा भी ऊँट मिलाकर बाँट दो। फिर भी सब ने सोचा बात मान लेने में क्या हर्ज है।

19+1=20 हुए।

20 का आधा 10, बेटे को दे दिए।

20 का चौथाई 5, बेटी को दे दिए।

20 का पांचवाँ हिस्सा 4, नौकर को दे दिए।

10+5+4=19 

बच गया एक ऊँट, जो बुद्धिमान व्यक्ति का था...

वो उसे लेकर अपने गॉंव लौट गया।

इस तरह 1 उंट मिलाने से, बाकी 19 उंटो का बंटवारा सुख, शांति, संतोष व आनंद से हो गया।

सो हम सब के जीवन में भी 19 ऊंट होते हैं।

5 ज्ञानेंद्रियाँ
(आँख, नाक, जीभ, कान, त्वचा)

5 कर्मेन्द्रियाँ
(हाथ, पैर, जीभ, मूत्र द्वार, मलद्वार)

5 प्राण
(प्राण, अपान, समान, व्यान, उदान)

और

4 अंतःकरण
(मन, बुद्धि, चित्त, अहंकार)

कुल 19 ऊँट होते हैं। 

सारा जीवन मनुष्य इन्हीं 19 ऊँटो के बँटवारे में उलझा रहता है।

और जब तक उसमें मित्र रूपी ऊँट नहीं मिलाया जाता यानी के दोस्तों के साथ.... सगे-संबंधियों के साथ जीवन नहीं जिया जाता, तब तक सुख, शांति, संतोष व आनंद की प्राप्ति नहीं हो सकती।

यह है 19 ऊंट की कहानी...

शुक्रवार, 27 दिसंबर 2019

१. एहि हसाम


२. 


३.

स्वागत—गीतम्

स्वागत—गीतम्

महामहनीय मेधाविन्, त्वदीयं स्वागतं कुर्मः।
गुरो गीर्वाणभाषायाः, त्वदीयं स्वागतं कुर्मः।।
दिनं नो धन्यतममेतत्, इयं मंङ्गलमयी वेला।
वयं यद् बालका एते, त्वदीयं स्वागतम् कुर्मः॥
न काचिद् भावना भक्तिः, न काचित् साधना शक्तिः।
परं श्रद्धा-सुमाञ्जलिभिः, त्वदीयं स्वागतं कुर्मः।
किमधिकं ब्रूमहे श्रीमन् निवेदनमेतदेवैकम्।
न बाला विस्मृतिं नेयाः त्वदीयं स्वागतं कुर्मः॥

हास्यकणिकाः