यह ब्लॉग खोजें

सोमवार, 18 अगस्त 2025

पञ्चमः पाठः - सदाचारः

 आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।1।।


अन्वय:- आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः (अस्त्ति)। उद्यम सम: बन्धुः न अस्ति, यं कृत्वा (मनुष्य:) न अवसीदति । 


सरलार्थ:- आलस्य मनुष्य के शरीर में स्थित सबसे बड़ा शत्रु है। परिश्रम के समान कोई मित्र नहीं है, जिसे (परिश्रम) करके मनुष्य कभी दुखी नहीं होता है।


श्वः कार्यमद्य कुर्वीत पूर्वाह्न चापराह्निकम् । 

नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ।।2।।


अन्वय:- श्वः कार्यम् अद्य कुर्वीत, आपराणिकं च पूर्वाणे (कुर्वीत) । हि मृत्युः न प्रतीक्षते, अस्य कृतं न वा कृतम् ।


सरलार्थ:- आने वाले कल का कार्य आज करना चाहिए, दोपहर के बाद का कार्य दोपहर से पहले करना चाहिए। क्योंकि मृत्यु प्रतीक्षा नहीं करती कि हुआ है या नहीं।



सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् । 

प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ।।3।।


अन्वय - सत्यं ब्रूयात्, प्रियं ब्रूयात्, अप्रियं सत्यं न ब्रूयात्। प्रियं च अनृतं न ब्रूयात् । एष धर्मः सनातनः ।


सरलार्थ:- सत्य बोलना चाहिए, प्रिय बोलना चाहिए, अप्रिय सत्य नहीं बोलना चाहिए। और प्रिय लगने वाला असत्य नहीं बोलना चाहिए। यही सनातन धर्म है।

सर्वदा व्यवहारे स्यात् औदार्यं सत्यता तथा । 

ऋजुता मृदुता चापि कौटिल्यं न कदाचन ।।4।।


अन्वय - व्यवहारे सर्वदा औदार्यम्, सत्यता तथा ऋजुता मृदुता च अपि स्यात् । (व्यवहारे) कदाचन कौटिल्यं न (स्यात्)।


सरलार्थ:- मनुष्य के व्यवहार में हमेशा उदारता, सच्चाई, उसी तरह सरलता और कोमलता होनी चाहिए। व्यवहार में कभी भी कुटिलता नहीं होनी चाहिए।


श्रेष्ठं जनं गुरुं चापि मातरं पितरं तथा । 

मनसा कर्मणा वाचा सेवेत सततं सदा ।।5।।


अन्वय - सदा गुरूं, मातरं, पितरं तथा श्रेष्ठं जनम् अपि मनसा, वाचा, कर्मणा च सततं सेवेत ।


सरलार्थ:-  हमेशा गुरू, माता, पिता तथा श्रेष्ठ श्रेष्ठ व्यक्ति की मन, वचन और कर्म से निरन्तर सेवा करनी चाहिए।


मित्रेण कलहं कृत्वा न कदापि सुखी जनः । 

इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत् ।।6।।


अन्वय- मित्रेण कलहं कृत्वा जनः कदापि सुखी न (भवति) । (अतः) इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत् ।


सरलार्थ :- मित्र के साथ झगड़ा करके मनुष्य कभी भी सुखी नहीं होता। अतः यह बात जानकर प्रयत्नपूर्वक उससे (झगड़े से) बचना चाहिए।



सोमवार, 12 अगस्त 2024

प्रत्यभिज्ञादर्शनविमर्शः

प्रत्यभिज्ञादर्शनविमर्शः
       दर्शनम्, विवेचनम्, विचारमिति। दर्शनशब्दस्य व्युत्पत्तिजन्योऽर्थः अस्ति आदिकालादेव मनुष्यः स्वजीवने दर्शनं महत्त्वपूर्ण स्थानं प्रददाति। वस्तुतः जीवनस्य प्रति मानवानां दृष्टिकोणेव दर्शनमस्ति यत् व्यक्तिं व्यक्तिं प्रति भिन्न-भिन्नं भवति। मानवेषु स्वस्य पार्श्वस्य पदार्थान् अवगन्तुं जिज्ञासा सर्वदा भवति। एतदेव नास्ति प्रत्युत, तेन सह एतेषां वस्तूनां किं सम्बन्धं, तस्य सम्बन्धस्य निरूपणं कः करोति, तस्य विषये ज्ञानस्य साधनं किम्, इत्यादयः बहवः शङ्काः सन्ति, येन मानवेभ्यः चिन्तनस्य प्रेरणा मिलति। सामान्यरूपेण दर्शनस्य आविर्भावस्य एषैव इतिहासः।

अस्मिन्विषयेऽपि भारतवर्षस्य स्वविशेषता वर्तते। एवं कथ्यते यत् भारतीयदर्शनं दुःखस्य आधारशिलायां प्रतिष्ठितम्। प्रायः सर्वाणि दर्शनानि दुःखनिवृत्त्यर्थमेव उपायानामन्वेषणे प्रवृत्तानि। दर्शनां परमं लक्ष्यमस्ति यत् कस्मिंश्चिद्धि उपायेन सर्वोच्चसुखस्य प्राप्तेः उपायः सार्धमेव अस्य जगतः दुःखानाम् आत्यन्तिकनिवारणेऽपि समर्थः भवतु। सांसारिकदुःखान् बन्धनं तथा च तेषां निवृत्तिं दार्शनिकभाषायां 'मोक्षः' इति कथ्यते। एतदेव 'बन्धन' तथा 'मोक्षः' भारतीयदर्शनानां मुख्यः प्रश्नः वर्तते। एतद् अन्या वार्ता वर्तते यत् तस्य स्वरूपे विभिन्नानि मतानि सन्ति अथवा दुःखनिवृत्तेः उपायानां विश्लेषणे मतभेदाः सन्ति। कोऽपि दार्शनिकः कथयति यत् महेश्वरस्य सेवया मोक्षं मिलति, अन्य कथयति आत्मस्वरूपस्य साक्षात्कारेण मोक्षं मिलति। कोऽपि कथयति जीवति सति मोक्ष प्राप्तकर्तुं शक्यते तहिं कोऽपि कथयति मृत्योः अनन्तरमेव मोक्षस्य सत्ता निर्धारितं करोति। एवं दर्शनेषु भेदं वर्तते।


प्रत्यभिज्ञादर्शनेतिहासः

कश्मीरदेशे प्रचलितस्य शैवागमस्य प्रत्यभिज्ञास्पन्द-त्रिकषऽर्धत्रयम्बकमिति नामानि सन्ति। पूर्व ज्ञातस्य मध्ये अज्ञात इव स्थितस्य वस्तुनः पुनः प्रत्यभिज्ञानमेतद्दर्शनद्वारा भवतीत्येतस्य संज्ञा प्रत्यभिज्ञा इति। परमेश्वरहृदये विश्वनिर्माणं समुत्पन्नायामिच्छायां शिवरूपं शक्तिरूपञ्चेति रूपद्वयं भवति परमेश्वरस्य। शिवः प्रकाशरूपः शक्तिश्च विमर्शरूपिणी। विमर्शश्च 'अकृत्रिमाऽहम्' इति स्फुरणमेतत् सृष्टिकाले विश्वाकाररूपेण, स्थितौ विश्वप्रकाशरूपेण, संहारकाले विश्वसंहाररूपेण च तिष्ठति।

उक्तञ्च पराप्रवेशिकायाम् -

'विमर्शो नाम विश्वाकारेण विश्वप्रकाशेन विश्वसंहारेण च अकृतिमहामिति स्फुरणम्' इति।

अन्यत्र चोक्तम्-

'या स्वरूपविश्रान्तिविमर्शः सोऽहमित्ययम्' इति

अस्यैव स्फुरणस्य स्पन्देत्यपरं नाम तस्मादेतद्वर्णनेन प्रकृतदर्शनस्य स्पन्दसंज्ञा समजनि। पशुपतिपाशरूपाणां त्रयाणां तत्त्वानां प्रधानतयाऽत्र वर्णनेनास्य त्रिक्संज्ञा सार्थकतामुपैति। त्रिकषडर्धयोः समानार्थकत्वं स्पष्टमेवेति न षडर्धसंज्ञाहेतुप्रदर्शनं परमावश्यकतां भजते। त्र्यम्बकप्रचारितस्य त्रैयम्बेत्यभिख्या युज्यत एवान्वर्थरूपेण ।

तन्त्रालोकटीकायां प्रत्यभिज्ञादर्शनस्याविर्भावक्रमः वर्णितस्यास्य संक्षिप्तारायस्त्वित्थम्- प्रचारक्रमश्च सविस्तर

सोमानन्दः त्र्यम्बकवंशजः त्र्यम्बकात् एकोनविंशः खीष्टनवमशतके एवं वर्णयतीति त्रिकदर्शनस्य प्रादुर्भावकालः पञ्चमशतकं प्रतीयते। पुरा कश्मीरदेशे प्रचलितान् मालनीविजयस्व छन्दविज्ञानं भैरवनेत्रादि अनेकशैवागमान् परवर्तिनः।
श्रूयते यत् भगवतः श्रीकण्ठः स्वयं स्वप्ने वसुगुप्तं आदेशः अददत् यत् महादेवगिरेः शिवपल्, शिवोपल, शिवशिला चादि अनेकनामकानि अनेक शिलाखण्डानि उपरि लिखितः सप्तसप्तति शिवसूत्राणाम् उद्धरणं कृत्वा लोके प्रचारं करोतु।

तदा वसुगुप्तः अष्टशमतं ई. मध्ये शिवसूत्राणां सिद्धान्तं स्पष्टकर्तुं द्विपञ्चाशत् कारिकासु 'स्पन्दकारिका' इत्यस्य रचना कृता। वसुगुप्तस्य श्रीमद्भगवद्‌गीतायामुपरि 'वासवी' इति टीका दुर्भाग्येन अप्रकाशितः एव।

वसुगुप्तस्य शिष्यः कल्लटः स्पन्दसिद्धान्तस्य तथा सोमानन्दः प्रत्यभिज्ञासिद्धान्तस्य वर्धनं कृत्तः। द्वयोः वैमत्यं कुत्रचिद्देवास्ति, सर्वत्र नास्ति। द्वयोः दार्शनिकदृष्टिः समानमेव। कल्लटस्य श्रेष्ठा कृतिः स्पन्दकारिकायाः वृत्तिः 'स्पन्दसर्वस्व' इति। सोमानन्दस्य मुख्यौ द्वौ ग्रन्थौ शिवदृष्टिः परात्रिंशिकाविवृत्ति।

सोमानन्दस्य शिष्यः उत्पलाचार्यः नवमशती मध्ये अभवत्। अस्य ग्रन्थः ईश्वर-प्रत्यभिज्ञाकारिका, ईश्वरप्रत्यभिज्ञावृत्ति, सिद्धित्रयी, शिवस्तोत्रावली तथा ईश्वरप्रत्यभिज्ञाविमर्शिनी सन्ति। अस्मासु प्रथमः त्रिकसम्प्रदायस्य मननशास्त्रम्। अस्यैव ग्रन्थस्य नामाधारेण अस्य दर्शनस्य नाम 'प्रत्यभिज्ञा' इति। सिद्धित्रयी ग्रन्थे अजडप्रमाता सिद्धिः, ईश्वरसिद्धिः, सम्बन्धसिद्धेश्च गणना अस्ति। शिवस्तोत्ररत्नावलीनामको ग्रन्थः भक्तिरसेन परिपूर्णः अत्युत्कृष्टस्तोत्राणां संग्रहः।

उत्पलाचार्यस्य प्रशिष्यः लक्ष्मणगुप्तस्य शिष्यः अभिनवगुप्तः नवमशताब्द्याः उत्तरार्धे अभवत्। दर्शने साहित्ये च अस्य प्रतिभा अनुपमा। 'अभिनवभारती' तथा 'लोचन' इति ग्रन्थरचना कारणात् अस्य नाम अमर जातः। अस्य कृतयः ईश्वरप्रत्यभिज्ञाविमर्शिनीव्याख्या-तन्त्रालोकतन्त्रसार मालिनीविजयवार्तिक-पारमार्थसार परात्रिं शिकाविवृत्ति-ईश्वरप्रत्यभिज्ञाविमर्शिनी-पर्यन्तपञ्चाशिका-परात्रिशिका च व्याख्या ग्रन्थाः सन्ति। अस्य साहित्येऽपि अनेकग्रन्थाः सन्ति।
अभिनवगुप्तस्य सुयोग्यः शिष्यः क्षेमराजः अभवत्। अस्य कृत्तयः शिवसूत्रविमर्शिनी-स्वच्छन्दतन्त्र विज्ञान भैरवतन्त्र नेत्रतन्त्रस्य उद्योतटीका प्रत्यभिज्ञाहृदय- स्पन्दनिर्णय स्पन्दसंदोह शिवस्तोत्रटीका च सन्ति।

अयं प्रकारेणैव प्रत्यभिज्ञादर्शनस्य विशिष्टग्रन्थाः अन्यापि सन्ति-

उत्पलवैष्णवस्य स्पन्ददीपिका, भास्करस्य शिवसूत्रवार्तिकवृत्तिः, वरदराजस्य शिवसूत्रवार्तिक, रामकण्ठस्य स्पन्दकारिकाविवृत्ति, योगराजस्य परमार्थसारवृत्ति, जयरथस्य तन्त्रालोकव्याख्या, गोरक्षनाथस्य (महेश्वरानन्द) परिमलसहितं महार्थमञ्जरी, नारायणस्य तन्त्रसारसंग्रहः, कौण्डिन्यस्य पाशुपतसूत्रञ्च।

प्रत्यभिज्ञादर्शनविमर्शः

महेश्वरसम्प्रदायस्य केचन् दार्शनिकः सन्ति ये शैवदर्शनेन असन्तुष्टयः सन्ति यतोहि शैवदर्शनानुसारेण अपेक्षरहित जडपदार्थान् कारणरूपेण स्वीकृतं यत् दोषपूर्णमस्ति। अत एव एते कश्चित् अन्यमतस्य अन्वेषणं कुर्वन्ति। एते वदन्ति यत् परमेश्वरस्य इच्छामात्रेण संसारस्य निर्माणं भवति। स्वस्य अनुभवेन अनुमानकरणेन (उपपत्ति-अनुमानम्) तथा शैवागमैः सिद्धिमान् प्रत्यक् (सर्वेषामुपरि) आत्मना सार्धं तादात्म्य (एकरूपता) भवति तर्हि नानाप्रकारकेन 'मान' (ज्ञानं) तथा च 'मेय' (ज्ञेयः) आदि प्रकारकं भेदान् अभेदान् च धर्मा परमेश्वर एव अस्ति, सः एतादृशी स्वतन्त्रतां धारणं करोति। यस्मिन् अन्यस्य कश्चित् मुखापेक्षिता (हस्तक्षेप, आवश्यकता) न भवति, सः स्वस्य आत्मनि आकासादि भावान् तथैव अवभासितं (व्यक्तं) करोति यथा कश्चित् दर्पणे प्रतिबिम्बं भवति एतेषां मत्तमेतदेव। एतदेव उक्तं तन्त्रालोके आचार्यः अभिनवगुप्तमहोदयः-

अतोऽसौ परमेशानः स्वात्मव्योमन्यनर्गलः।
इयतः सृष्टिसंहाराऽम्बरस्य प्रकाशकः ॥


बाह्यचर्या (भस्मस्नानादि) आभ्यान्तरचर्या (क्राव्यनादि) प्राणायामादि क्लेशप्रदप्रयासात् दूरं स्थित्वा, अधुना जनैः सुलभं, चिरनवीनं, प्रतिभिज्ञा मात्रमेव परसिद्धिः (मुक्तिः) अपरसिद्धिश्च (अभ्युदयः, स्वर्गप्राप्तिः) स्वीकृत्य एते महेश्वरसिद्धान्तिनः प्रत्यभिज्ञाशास्त्रस्यैव अभ्यासं कुर्वन्ति ।

निर्मले मुकुरे यद्वद् भान्ति भूमिजलादयः।
अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः ।। 2.3.4

तत्रेदं प्रथमं सूत्रम् -

कथञ्चिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन्।
समस्तसम्पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि।।

महेश्वरस्य अनवच्छिन-प्रकाश आनन्द स्वातन्त्र्यपरमार्थस्य कथञ्चित् परमेश्वरेच्छा सम्पादितेन परमेश्वराभिन्नं गुरुचरणारविन्दयुगलसमाराधेन दास्यं परमेश्वरस्वरूप- भूतपूर्णस्वातन्त्र्यरूपं स्वस्य परमेश्वराभेदानुभवमिति यावदासाद्य आ समन्ताद् यथेष्टमुप- भोगयोग्यं विधाय जनस्यापि स्वभिन्त्रस्यापि उपकार शिवसमीपे करणमिच्छन् समस्तानां सम्पदां समवाप्तेर्हेतुं तस्य महेश्वरस्य प्रत्यभिज्ञां प्रति आभिमुख्येन ज्ञानमुपपादयामि। उपपत्ति सम्भवः। सम्भवतीति तत्समर्थचरणेन प्रयोजनव्यापारेण सम्पादयामीत्यर्थः। अत्रेदं मर्म-

लोके हि 'स एवायं चैत्रः' इति प्रतिसन्धानेनाभिमुखीभूते वस्तुनि ज्ञानं प्रत्यभिज्ञेति व्यवह्रियते। इहापि पुराणागमानुमानादिज्ञातपरिपूर्णशक्तिके परमेश्वरे सति स्वात्मन्यभिमुखीभूते तच्छक्तिप्रतिसन्धानेन ज्ञानमुदेति नूनं 'स एवेश्वरोऽहम्' इति। इदमेव प्रकृष्टं ज्ञानं प्रत्यभिज्ञा। तथोपदिष्टं शिवदृष्टौ भगवत्सोमानन्दनाथैः-

एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः। 
ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ।।

करणेन नास्ति कृत्यं क्वापि भावनयाऽपि वा। 
ज्ञाते सुवर्णे करणं भावनां वा परित्यजेत् ।।
 प्रत्यक्षादिप्रमाणेन प्रत्यभिज्ञाशास्त्राद् गुरुवाक्याद्वा दृढरूपया प्रति-पत्त्या साक्षात्कारेण सर्वगते शिवत्वे एकवारं विज्ञाते सति पश्चात् कारणस्य प्रमाणादेर्नावश्यकता नापि भावनाया इति भावः। वस्तुतः सुवर्णमपि 'इदं सुवर्णम्' इत्येवं सुवर्णत्वेन यावत्र ज्ञातं तावद् तज्ज्ञानसाधनभूतं निकषोपलाद्यानीयते। असुवर्णबुद्धया प्राप्तस्य परित्यागस्य निवृत्तये 'इदं सुवर्णं भावनीयम्' इति भावना चोपदिश्यते। सुवर्णज्ञानोत्तरन्तु न कथमपि तदपेक्षा। नहि रोगविमुक्तौ भेषजमपेक्षते कश्चित्। शिवोऽहमित्यनवरतं चिन्तनं भावना। शिवोऽहमित्येवमात्मनः परमेश्वरलाभे मेरुपर्वतलाभे रत्नसम्पद इव सर्वाः सम्पदोऽनायासं सुसम्पत्रा एव भवन्ति। एवं प्रत्यभिज्ञाशास्त्रबलेन परमेश्वरतालाभे नान्यत्किमपि प्रार्थनीयमवशिष्यते।

तदुक्तमुत्पलदेवाचार्यैः -

भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम्। 
एतया वा दरिद्राणां किमन्यदपयाचितम्।। इति

भक्तिः परमेश्वरस्य दास्यं तद्रूपलक्ष्म्या युक्तानां नान्यत्किमपि प्रार्थनीयं भवति सर्वस्यं तैः समवाप्तमिति भावः तथा तया रहिता नामप्राप्त परमेश्वरदास्यानां नान्यत्किमपि त्याज्यं भवति। सर्वस्वं तैः परित्यक्तमितिभावः। परमेश्वरदास्यं हि सम्पत्तेः पराकाष्ठा। तादृश दास्याभावश्चापत्तेः पराकाष्ठा इति तात्पर्यम्। सर्वमेतत् समस्तानां सम्पदां समवाप्तेहँतुरिति षष्ठीतत्पुरुषसमासपक्षे निगदितम्। अयमात्मा परमेश्वरो भवितुमर्हति। ज्ञानक्रियाशक्तिमत्वात्। यो यावति ज्ञाता कर्ता च स तावदीश्वरः प्रसिद्धेश्वरवद् राजवद् वा। आत्मा च विश्वज्ञाता कर्ता च। तस्मादीश्वरोऽयमिति। अयमात्मेत्यादि प्रतिज्ञावाक्यम्। ज्ञानक्रियेत्यादि हेतुवाक्यम्। यो यावतीत्याद्युदाहरणवाक्यम् आत्मा चेत्याद्युपनयवाक्यम्। तस्मादित्यादि निगमनवाक्यम्।

प्रतिज्ञादिवाक्यपञ्चकमवयवपञ्चकमिति नैयायिकै व्यवहृतं तस्यावयवपञ्च- कस्याश्रणं मायाङ्गीकरणवत्रैयायिकमतस्यापि अङ्गीकारात्र बोध्यम्। अत्र प्रतिज्ञावाक्येन तथा सम्भवः प्रतीयते। अत एव सम्भवतीति तत्समर्थाचरणेन प्रयोजनव्यापारेण सूत्रकृतः प्रत्यभिज्ञोपपादनं सङ्गच्छते।

तदुक्तमुदयाकरसूनुना

कर्त्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे।
अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः ॥

कर्ता ज्ञाता चायं जीवात्मा आदिसिद्धो महेश्वर एव न कदाप्यन्यः एवं वस्तुस्थितौ को विचारशीलो जीवात्मा नेश्वर इति निषेधं कुर्यात्। तथा स ईश्वरसिद्धिं वा को विदद्ध्यात् यतो हि असिद्धस्यैव सिद्धयपेक्षा न सिद्धस्य।

प्रत्यभिज्ञापरमावश्यकता यतोहि सदाप्रकाशेन परमेश्वररूपोऽपि अयं जीवात्मा मायावशात्रतथोपलक्ष्यतेऽतो जीवात्मनो मायानिराशपूर्वकं तद्रूपता सिद्धैः स्वगतदृक्- क्रियाशक्ति-प्रतिसन्धानेन प्रत्यभिज्ञा प्रदश्यते इति भावः ।

सर्वेषां भूतानां प्राणिनां प्रतिष्ठा स्थितिः जीवाश्रयैव। जीवतां प्राणिनां जीवनं चैतन्यञ्च ज्ञानं क्रिया चेति शक्तिद्वयम्। तत्र ज्ञानशक्तिः स्वतः सिद्धा। क्रियाशक्तिस्तु निर्वर्त्य यत्कार्यं तदाश्रिता सती परेण स्वेन चानुसन्धीयते।

या चैषां जीवानां ज्ञानशक्तिः देशकालवस्तुरूपोपाधिवशेन सङ्कुचिता तत्तज्ज्ञेयपदार्थानुसन्धानक्रमेण निरूप्यते स एव प्रमाता महेश्वरः स च क्रमरहितानन्दापर- पर्यायचैतन्यरूपः। निरूपाधिक्रमरहितशुद्धज्ञानशक्तेः महेश्वरस्वरूपत्वात्।

सोमानन्दनाथपदैरप्युक्तम् -

सदाशिवात्मना वेत्ति सदा वेत्ति मदात्मना।
घटो मदात्मना वेत्ति वेद्भ्यहं च घटात्मना। 
नानाभावैः स्वमात्मानं जानन्नास्ते सदाशिवः ॥ इति

महेश्वरस्य दासः सदा स्वात्मानं शिवरूपेण जानाति, तथा मदात्मना शिवशक्तिरूपेण च सदा जानातीत्यर्थः।

एष महेश्वरः अनन्तशक्तित्वात् जगति दृश्यमानान् अमून्भावान् पदार्थान् प्रकाशति। इयमस्य ज्ञानशक्तिः। तथा स्वेच्छावशाद् या महेश्वरस्यैषां पदार्थानां निर्मातृता सा क्रियाशक्तिः।

तस्मिन् सतीदं जगदिति कार्यकारणभावोऽचेतने न सम्भवति। तस्मात् महेश्वर एव जगत्कर्ता। महेश्वरसत्त्वे जगत्सत्तेति कार्यकारणभावोऽत्र बोध्यम्। लौकिकपदार्था अवभासन्ते महेश्वरश्च तान् अवभासयति इति रीत्या महेश्वरे प्रयोजक (हेतु) कर्तृत्वं सिध्यति । घटपटादि आकारकजगत्रूपेण स्थातुमिच्छोः परमेश्परस्येच्चैव विश्वकर्तृत्वरूपा क्रिया। 'एकोऽहं बहु स्याम्' इत्येव इच्छा प्रादुर्भाव एव परमेश्वरो रचयति जगत् विचित्रमिति भावः। प्रधानपरमाण्वादीनामपेक्षा। विरहितत्वात् सापेक्ष चेतनस्य घटादिकरणस्यापि जीवस्यासामर्थ्याच्च न जगत्कारणत्वमिति निष्कर्षः।

इच्छामात्रेण जगनिर्माणे दृष्टान्तः-

योगिनामपि मृद्वीजे विनैवेच्छावशेन यत्।
घटादि जायते तत्तस्थिरभावक्रियाकरम्।। इति

मृत्तिकां विनैव योगिनामिच्छामात्रेण घटो जायते। एवं बींज विनैव तेषामिच्छामात्रेणाङ्कुरो जायते इति पुराणेषु प्रसिद्धम्। न चैतद् घटादिकं केवलमाभासमात्रं किन्तु लोकप्रसिद्धघटादिवत् स्थिरं स्वप्रयोजनीभूत लाहरणादिक्रियाकरणसमर्थञ्च भवति। तथा च जडानां कारणत्वभावो न केवलमपेक्षाविहीनत्वादेव किन्तु व्याभिचारदर्शनादपीति भावः।

ननु प्रत्यगात्मनः परमेश्वराभिन्त्रत्वे संसारबन्धः कथं भवेदिति चेत्तत्रोक्तं स्पष्टभागमाधिकारे

एष प्रमाता मायान्धः संसारी कर्मबन्धनः । विद्यादिज्ञापितैश्वर्यश्चिद्वनो मुक्त उच्यते ॥ इति

एष प्रमाता माययाऽन्धः सन्त्रीश्वरस्वरूपाज्ञानात् कर्मणा बद्ध्यते संसरति च। नूनमीश्वरोऽहमित्याकारकप्रतयभिज्ञया साक्षात्कृतेश्वरस्वरूपस्तु दृक् क्रियाशक्तिपरिपूर्णो मुक्त इत्युच्यते इत्यर्थः। मायापि परमेश्वरेण स्वेच्छयैव परिगृह्यते इति विशिष्टवेद्यमत्र वेदितव्यम्।

तत्त्वमालाविवरणम्

तन्त्रालोके तत्त्वलक्षणमुक्तम् -

स्वस्मिन् कार्येऽथ धर्मोघे यद्वापि स्वसदृगुणे।
आस्ते सामान्यकल्पेन तननाद् व्याप्तृभावतः। 
तत्तत्वं क्रमशः पृथिवी प्रधानं पुंशिवादयः ॥ इति

शाक्तशैवागमानुसारं तत्त्वसंख्या षट्त्रिंशत् । तत्र प्रथमं शिवतत्त्वं विद्यातत्त्वमात्मतत्त्वमित्येवं त्रयो विभागाः। शिवतत्त्वेन शिवशक्ती गृह्येते। विद्यातत्त्वे सदाशिवः ईश्वरशुद्धविद्यानां ग्रहणम्। आत्मतत्त्वे मायादिभूत्यन्तानामेकत्रिंशत्तत्त्वानामन्तर्भावः। तेषां नामानि यथा-

1. शिवः 2. शक्तिः 3 सदाशिवः 4. ईश्वरः 5. शुद्धविद्या 6. माया 7. कला 8. विद्या 9.रागः 10. कालः 11. नियतिः 12. पुरुषः 13. प्रकृतिः 14. बुद्धिः 15. अहङ्कारः 16.मनः 17. श्रोतृ 18. त्वक् 19. चक्षु 20. जिह्वा 21. घ्राण 22. वाक् 23. पाणि 24. पाद 25. पायु 26. उपस्थ 27. शब्दः 28. स्पर्श: 29. रूपम् 30. रसः 31. गन्धः 32. नभः 33. वायुः 34. वह्नि 35. आपः 36. भूमिः इति।


           ____अशोककुमारः विशिष्टाचार्यः (सर्वदर्शनविभागः)
                   श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्
                                                                 नवदेहली

सन्दर्भग्रन्थसूची

1. सर्वदर्शनसंग्रहः, माधवाचार्यः, भाष्यकार: प्रो. उमाशंकरशर्मा 'ऋषि', चौखम्बा विद्याभवन, वाराणसी, 2006

2. प्रत्यभिज्ञाप्रदीपः, श्री रङ्गेश्वरनाथमिश्र मधुरेशः, सम्पादकः डा. रामकुमारशर्मा, नाग पब्लिशर्स, जवाहरनगर, दिल्ली, 1998

3. भारतीयदर्शन, सम्पादकः डा. नन्दकिशोर देवराज, उत्तरप्रदेश हिन्दी संस्थान, लखनऊ, 2002

मंगलवार, 21 नवंबर 2023

पठामि संस्कृतं नित्यम्

पठामि संस्कृतं नित्यं
वदामि संस्कृतं सदा ।
ध्यायामि संस्कृतं सम्यक्
वन्दे संस्कृतमातरं ॥

संस्कृतस्य प्रसाराय 
नैजं सर्वं ददाम्यहं।
संस्कृतस्य सदा भक्तो
वन्दे संस्कृतमातरं ।।

संस्कृतस्य कृते जीवन्
संस्कृतस्य कृते यजन् ।
आत्मानं आहुतं मन्ये
वन्दे संस्कृतमातरं ॥

मंगलवार, 5 सितंबर 2023

बहुत बड़ा है यह संसार

सबसे पहले मेरे घर का अंडे जैसा था आकार,

तब मैं यही समझती थी बस इतना सा ही है संसार!

फिर मेरा घर बना घोंसला सूखे तिनकों से तैयार,

तब मैं यही समझती थी बस इतना सा ही है संसार!

फिर मैं निकल पड़ी शाखों पर हरी भरी थी जो सुकुमार,

तब मैं यही समझती थी बस इतना सा ही है संसार!

लेकिन जब मैं आसमान में उडी दूर तक पंख पसार,

तभी समझ में मेरी आया बहुत बड़ा है यह संसार!

<script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js?client=ca-pub-8893179035070262"
     crossorigin="anonymous"></script>

सोमवार, 4 सितंबर 2023

थाल सजाकर किसे पूजने चले प्रात ही मतवाले?

 
थाल सजाकर किसे पूजने 
चले प्रात ही मतवाले?
कहाँ चले तुम राम नाम का
पीताम्बर तन पर डाले?

कहाँ चले ले चन्दन अक्षत
बगल दबाए मृगछाला?
कहाँ चली यह सजी आरती?
कहाँ चली जूही माला?

ले मुंजी उपवीत मेखला
कहाँ चले तुम दीवाने?
जल से भरा कमंडलु लेकर
किसे चले तुम नहलाने?

मौलसिरी का यह गजरा
किसके गज से पावन होगा?
रोम कंटकित प्रेम - भरी
इन आँखों में सावन होगा?

चले झूमते मस्ती से तुम,
क्या अपना पथ आए भूल?
कहाँ तुम्हारा दीप जलेगा,
कहाँ चढ़ेगा माला - फूल?

इधर प्रयाग न गंगासागर,
इधर न रामेश्वर, काशी।
कहाँ किधर है तीर्थ तुम्हारा?
कहाँ चले तुम संन्यासी?

क्षण भर थमकर मुझे बता दो,
तुम्हें कहाँ को जाना है?
मन्त्र फूँकनेवाला जग पर
अजब तुम्हारा बाना है॥

नंगे पैर चल पड़े पागल,
काँटों की परवाह नहीं।
कितनी दूर अभी जाना है?
इधर विपिन है, राह नहीं॥

मुझे न जाना गंगासागर,
मुझे न रामेश्वर, काशी।
तीर्थराज चित्तौड़ देखने को
मेरी आँखें प्यासी॥

अपने अचल स्वतंत्र दुर्ग पर
सुनकर वैरी की बोली
निकल पड़ी लेकर तलवारें
जहाँ जवानों की टोली,

जहाँ आन पर माँ - बहनों की
जला जला पावन होली
वीर - मंडली गर्वित स्वर से
जय माँ की जय जय बोली,

सुंदरियों ने जहाँ देश - हित
जौहर - व्रत करना सीखा,
स्वतंत्रता के लिए जहाँ
बच्चों ने भी मरना सीखा,

वहीं जा रहा पूजा करने,
लेने सतियों की पद-धूल।
वहीं हमारा दीप जलेगा,
वहीं चढ़ेगा माला - फूल॥

वहीं मिलेगी शान्ति, वहीं पर
स्वस्थ हमारा मन होगा।
प्रतिमा की पूजा होगी,
तलवारों का दर्शन होगा॥

वहाँ पद्मिनी जौहर-व्रत कर
चढ़ी चिता की ज्वाला पर,
क्षण भर वहीं समाधि लगेगी,
बैठ इसी मृगछाला पर॥

नहीं रही, पर चिता - भस्म तो
होगा ही उस रानी का।
पड़ा कहीं न कहीं होगा ही,
चरण - चिह्न महरानी का॥

उस पर ही ये पूजा के सामान
सभी अर्पण होंगे।
चिता - भस्म - कण ही रानी के, 
दर्शन - हित दर्पण होंगे॥

आतुर पथिक चरण छू छूकर
वीर - पुजारी से बोला;
और बैठने को तरु - नीचे,
कम्बल का आसन खोला॥

देरी तो होगी, पर प्रभुवर,
मैं न तुम्हें जाने दूँगा।
सती - कथा - रस पान करूँगा,
और मन्त्र गुरु से लूँगा॥

कहो रतन की पूत कहानी,
रानी का आख्यान कहो।
कहो सकल जौहर की गाथा,
जन जन का बलिदान कहो॥

कितनी रूपवती रानी थी?
पति में कितनी रमी हुई?
अनुष्ठान जौहर का कैसे?
संगर में क्या कमी हुई?

अरि के अत्याचारों की
तुम सँभल सँभलकर कथा कहो।
कैसे जली किले पर होली?
वीर सती की व्यथा कहो॥

                               .....श्यामनारायण पाण्डेय


पर्वत कहता शीश उठाकर, तुम भी ऊँचे बन जाओ।

पर्वत कहता शीश उठाकर,
तुम भी ऊँचे बन जाओ।
सागर कहता है लहराकर,
मन में गहराई लाओ।

समझ रहे हो क्या कहती हैं
उठ-उठ गिर-गिर तरल तरंग
भर लो भर लो अपने दिल में
मीठी-मीठी मृदुल उमंग! ।

पृथ्वी कहती धैर्य न छोड़ो
कितना ही हो सिर पर भार,
नभ कहता है फैलो इतना
ढक लो तुम सारा संसार! ।
                – सोहनलाल द्विवेदी (भारतीय कवि)

गुरुस्तोत्र

।।गुरुस्तोत्र।।

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ३॥

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ४॥

चिन्मयं व्यापि यत्सर्वं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५॥

सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः ।
वेदान्ताम्बुजसूर्यो यः तस्मै श्रीगुरवे नमः ॥ ६॥

चैतन्यश्शाश्वतश्शान्तः व्योमातीतो निरञ्जनः ।
बिन्दुनादकलातीतः तस्मै श्रीगुरवे नमः ॥ ७॥

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ ८॥

अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने ।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ ९॥

शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः ।
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ १०॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥ ११॥

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२॥

गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ १३॥

त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देवदेव ॥ १४॥

          ॥ इति श्रीगुरुस्तोत्रम् ॥

पञ्चमः पाठः - सदाचारः

  आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।1।। अन्वय:- आलस्यं हि मनुष्याणां शरीरस्थो महान् रि...