![]() |
सदाबहार पुष्प |
लोकप्रिय पोस्ट
-
मेघा नाद घटा घटा घट घटा घाटा घटा दुर्घटा, मण्डूकस्य बको बको बक बको बाको बको बूबको । विद्युज्ज्योति चकी मकी चक मकी चाकी मकी दृश्यते, इत्थं नन...
-
हम नन्हे मुन्ने हो चाहे पर नहीं किसी से कम| आकाश तले जो फूल खिले वह फूल बनेंगे हम|| बादल के घेरे में| कुहरे के घेरे में| भयभीत नहीं होंगे,...
-
स्वागत—गीतम् महामहनीय मेधाविन्, त्वदीयं स्वागतं कुर्मः। गुरो गीर्वाणभाषायाः, त्वदीयं स्वागतं कुर्मः।। दिनं नो धन्यतममेतत्, इयं मंङ्गलमयी वेल...
-
।।लक्ष्यमस्ति निश्चितं।। ।। तथा विचारितं।। लक्ष्यमस्ति निश्चितं तथा विचारितं, आचरेम मित्र संस्कृतेन पाठनम्......।। आंग्ल भाषया हि आंग्ल म...
-
गुणैरुत्तमतांयाति नोच्चैरासनसंस्थित: । प्रासादशिखरस्थोपि काक: किं गरुडायते ।। #भावार्थ- एक व्यक्ति का मूल्य ...
गुरुवार, 17 जून 2021
काव्यप्रकाश - आचार्य मम्मट के अनुसार काव्य के भेद उदाहरण सहित
मंगलवार, 8 जून 2021
एहि हसाम
सुविचार
रविवार, 6 जून 2021
संस्कृत-कार्यपत्रम्-1 कक्षा-६
कार्यपत्रम्
नाम- विषय अध्यापक का नाम -
कक्षा- वर्ग- रोल नं.-
दिये गये शब्दों को पढ़ो। नीले रंग से संस्कृत के शब्द वचनों के अनुसार दिए गए हैं। उन्हीं संस्कृत शब्दों का हिंदी अर्थ हरे रंग से उनके नीचे लिखा है। संस्कृत भाषा में तीन वचन होते हैं एकवचन का मतलब जहां पर किसी वस्तु की संख्या 1 है। द्विवचन का मतलब जहां पर किसी वस्तु की संख्या 2 है और बहुवचन का मतलब है जहां पर कोई वस्तु तीन या उससे अधिक है।
एकवचन द्विवचन बहुवचन
कपोतः कपोतौ कपोताः
कबूतर दो कबूतर बहुत से कबूतर
मण्डूकः मण्डूकौ मण्डूकाः
मेढक दो मेढक बहुत से मेढक
कृषकः कृषकौ कृषकाः
किसान दो किसान बहुत से किसान
वलिवर्दः वलिवर्दौ वलिवर्दाः
बैल दो बैल बहुत से बैल
गायकः गायकौ गायकाः
गायक दो गायक बहुत से गायक
प्रश्न. अब नीचे कुछ संस्कृत के शब्द और उनके अर्थ एकवचन में दिए जा रहे हैं। ऊपर की तालिका के अनुसार उन शब्दों के द्विवचन और बहुवचन रूप स्वयं से बनाएं और उनके हिंदी अर्थ भी लिखें।
एकवचन द्विवचन बहुवचन
1.शिक्षकः ………. ………..
अध्यापक ………. ………..
2.मयूरः ………. ………..
मोर ………. ………..
3.बालकः ………. ………..
बालक ………. ………..
4.चषकः ………. ………..
गिलास ………. ………..
5.अर्चकः ………. ………..
पुजारी ………. ………..
प्रत्यभिज्ञा दर्शनविमर्श:| अशोक कुमार: विशिष्टाचार्य:
https://drive.google.com/file/d/1JzeV_VRBvezgalabIbTen0xOzcwYm0FC/view?usp=drivesdk
प्राचीन वेदानुसारेण पर्यावरणस्य सम्प्रत्यानाम् अध्ययनम्।
शोधसंक्षिप्तिका शिक्षाचार्य (Synopsis M.Ed Sanskrit Medium)
श्लिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता ।
यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ।।
(मालविकाग्निमित्रम् 1/16)
शोधस्य पृष्ठभूमिः (Preface of Research)
वेदाः सन्त्यानुसन्धातृभिः महर्षिभिरनुभूतस्य परमतत्त्वस्य बोधयितारो भूत्वा भुवि विभान्ति । यत्र प्रत्यक्षस्य न च अनुमानस्य प्रवेशस्तत्रापि ते प्रविशन्ति । एषामेव भारतीयसभ्यता-संस्कृतेश्चाधारमूलानां शिक्षा वर्तते षडङ्गेषु आद्यमङ्गमत्र । स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते च सा शिक्षेति । वेदानां वैदिकसाहित्यस्य वा अध्ययनाध्यापनविषयकविधीनां निर्देशः शिक्षाशास्त्रे कृतः । शिक्षाशास्त्रेतिहासः पुरातनतरः वर्तते । संस्कृतवाङ्मये विशेषतः व्याकरणशिक्षणं प्रमुखं स्थानं भजते । प्रत्येकं भाषा तत्तद्वयाकरणनियमानुसारं स्वीयपरिधिनिर्माणपुरस्सरं विशिष्टां रूपरचनां सृजतीति स्पष्टमेव ।
संस्कृतभाषा भाषास्वादिभाषा । यास्क-पाणिनि-पतञ्जलिप्रभृतीनां विद्वद्धौरेयाणां ग्रन्थाः संस्कृतभाषायाः लोकव्यवहृतेश्च सन्ति समुज्ज्वलानि ज्वलन्ति प्रमाणानि । भारतीयभाषासु सुरमणीया, सुललिता, मधुरा, सर्वप्राचीना चेयं संस्कृतभाषा कठिनेति मन्वानाः बहवः एतदध्ययनात् पराङ्मुखाः तिष्ठन्ति । तत्रैव एतदपि आश्चर्यभूतं दरीदृश्यते यत् सहस्रशः संस्कृतविद्वान्सः, सेवारताध्यापकाः, अध्येतारः, समर्पितजीवनाः संस्कृतप्रचारकाः छात्राः, बान्धवाः च अस्याः अभ्युत्थानाय अहर्निशं यतमानाः सन्ति । एतेषां प्रोत्साहनाय संस्कृतायोगः ऊर्जाबलं यथासमयं प्रयच्छत्येव । संस्कृतभाषाशिक्षणे विविधेषु आधुनिकेषु शिक्षाशास्त्रग्रन्थेषु सत्सु प्राविधिक-शास्त्रप्रतिपादिते अभिक्रमिताधिगमप्रविधिप्रतिपाद्यः रेखीयाभिक्रमिताधिगमः विषयेऽस्मिन् किञ्चिदनुसन्धाय तस्य व्याकरणांशाधिगमे कीदृशो प्रभावः भवतीति जिज्ञासया कारकाधिगमे रेखीयाभिक्रमस्य प्रभावेति समस्यामाहृत्य प्रयोगात्मकमनुसन्धानं विधास्यते ।
शोधक्षेत्रम् (Research Area)
अस्त्युत्तरां दिशमलङ्कुरुते प्रकामं हैमाचलः सकलपर्वतराजिराजः ।
स्थूलाङ्गतुङ्गशिखरावलिभिवृतो यः स्रग्भिर्यथा सुरसरितसुमजाभिरिन्द्रः ।।
महाहिमवन्तस्य उपत्यकासु वासकारणादस्य प्रदेशस्य नाम हिमाचलमिति अभूत् । हिमाचलप्रदेशस्य शाब्दिकार्थः भवति हिमावृतपर्वताभ्यन्तर्स्थितप्रदेशः इति प्रदेशोऽयं पर्वतराज्ञी, देवभूमिः, बुद्धभूमिश्चापि नामाख्याता वर्तते । 55673 वर्गकिलोमीटर्-परिमितो विस्तीर्णोऽयं देवभूमिति कथ्यमानः प्रदेशः 26 जनवरी,1971 तमे वर्षे पूर्णराजस्वमाप्नोत् । प्रदेशेऽस्मिन् द्वादशजनपदाः वर्तन्ते । एषु द्वादशसु जनपदेषु सर्वाधिके (297 संख्यात्मके) उच्चमाध्यमिकविद्यालययुते अनुसन्धात्रा चित्ते काङ्गड़ाजनपदे एव शोधाध्ययनं समपत्स्यते ।
शिक्षा (Education)
संस्कृतभाषायां शिक्षा इति पदस्य व्युत्पत्तिः शिक्ष् विद्योपादाने इति धातोः गुरोश्चहलः इति पाणिनिसूत्रेण अ प्रत्यये सति निष्पन्ना भवति । अस्यार्थो भवति विद्याग्रहणम् इति (ऋग्वेदः)। वेदेषु सर्वत्र स्वरप्राधान्यं भवत्येव, स्वरभेदनार्थभेदसम्भवात् । इदं स्वरज्ञानं शिक्षाधीनं भवति । अतः शिक्षाशास्त्रस्य वेदाङ्गता सुतराम् उपपद्यते ।
माध्यमिकस्तरःMiddle Level माध्यमिक-शिक्षाऽऽयोगः1952-53( मुदालियरायोगः)
अस्याध्ययनस्तरस्य संस्तुतिः भारतसर्वकारेण माध्यमिक-शिक्षाऽऽयोगाय प्रदत्ता अस्ति । अनेन आयोगेन अत्र माध्यमिकस्तरे शिक्षोद्देश्यानि परिष्कृतानि सन्ति । सामान्यतः आयोगस्यास्य निश्चितोऽयं स्तरः यत् षष्ठीकक्ष्यारभ्य दशमीकक्ष्यापर्यन्तं माध्यमिकस्तरः वर्तते । अस्य स्तरानुगुणं प्राचल्यमानस्य पाठ्यक्रमस्य एव अध्यापनं विद्यालयेषु अध्यापकः सम्पादयति ।
कारकम् ( Karakam)
क्रियान्वयि कारकम् इति पाणिनिसम्मत्तम् । अर्थात् क्रियायाः अन्वयः क्रियान्वयः । अन्वयः नाम सम्बन्धः । क्रियान्वयः अस्तीति क्रियान्वयि । यः क्रियया अन्वेति (सम्बन्धं प्राप्नोति) सः कारकमित्युच्यते इति फलितार्थः । व्याकरणशास्त्रे कारकाणि षडविधानि निगदितानि -
कर्ता कर्म च करणं सम्प्रदानं तथैव च ।
आपादानाधिकरणम् इत्याहुः कारकाणि षट् ।।
रेखीयाभिक्रमः(Linear Programme)
रेखीयाभिक्रमः अर्थात् शिक्षणक्रमबद्धता । शृङ्खलाभिक्रम-बाह्यानुदेशनप्रभृतनामभिः बहुश्रुतः अयं सक्रिय-शिक्षणानुबद्धताक्रमः अभिक्रमिताधिगमहेतुः अनुदेशनप्रदायकः प्रकारविशेषो वर्तते । अभिक्रमितानुदेशनप्रक्रियायाम् अस्य एव प्रकारविशेषस्य शिक्षणे आद्यप्रयोगः शैक्षिकप्रविधौ उपादेयः प्रोक्तः । मनोवैज्ञानिकस्य श्रीमतःबी.एफ्.स्किनरमहोदयस्य नामोल्लेखः महत्तां भजते यः 1943 तमे वर्षे कपोतानामुपरि प्रयोगं विधाय अधिगमाय सक्रियानुबन्धानुक्रियेति सिद्धान्तस्य प्रतिपादनमकरोत् । रेखीयाभिक्रमे विषयस्य लघुषु-लघुषु पदेषु विभाजनं क्रियते । एतेषु पदेषु त्रीणि तत्त्वानि निहितानि भवन्ति । उद्दीपन-अनुक्रिया-पुनर्बलनादयः इत्येते त्रयः बिन्दवः शिक्षणस्य सफलतां परिपोषयन्ति । रेखीयाभिक्रमे प्रस्तावनापद-शिक्षणपद-अभ्यासपद-परीक्षणपदञ्चेत्येते पाठनस्य पदविभागाः सन्ति । तन्त्रांशोपागमे यदा शिक्षायां बलं दीयमानमासीत् तदा स्वाध्यायसामग्रीनिर्माणे प्रयासः क्रियमाणः आसीत् । तस्मिन् स्किन्नरयोगदानपरिणामरूपः रेखीयाभिक्रमः स्वाध्यायसामग्रीनिर्माणप्रक्रमः सृष्टो वर्तते । प्रवर्तमानानेहसि उदाहरणत्वेन दूरस्थशिक्षणपाठ्यक्रमः एतदेव सिद्धान्ताधारितो वर्तते । मनोवैज्ञानिकसिद्धान्ताधारितेऽस्मिनभिक्रमे छात्राणां व्यक्तिगतविभिन्नताधारितं शिक्षणं, तार्किकक्रमेण, क्लिष्टविषयाणां बोधगम्यतासम्पादनं विशेषतया प्रवर्तते ।
समस्याकथनम् (Statement of the Problem)
हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्च-माध्यमिकस्तरच्छात्राणां कारकाणामधिगमे रेखीयाभिक्रमस्य प्रभावः ।
अध्ययनस्य आवश्यकता महत्त्वञ्च (Need and Importance of Study )
शिक्षाजगति संस्कृतवाङ्मये प्रमुखनामाख्यातस्य व्याकरणस्याध्ययनं विधिनानेन कर्तुं शक्यं न वा इत्यनया जिज्ञासया अनुसन्धाने प्रविधिरयं व्याकरणशिक्षणाय चितः। व्याकरणशास्त्रे विषयविशालतां परिदृश्य कारकं नाम्ना छात्रोपकारकः प्रचलितः विषयः अनुसन्धानाय चितः । उच्च-माध्यमिकस्तरे विषयस्यास्य अधिगमः छात्राणां न संभवति । अतः एतस्मै स्तराय कारकविषयः सुलभतरः भवेदिति मत्वा अयं प्रविधिः अनुसन्धानाय स्वीकारि ।
अपि च यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणमिति भाषा शुद्धतायाः स्पष्टतायाः वा ज्ञानसम्पादनार्थम् अनुसन्धानविषयः परिकल्पितो वर्तते । यतः क्लिष्टमिदं व्याकरणशास्त्रं तस्मात् सुलभोपायाभावे संस्कृतव्याकरणांशाः सुकरतया अवगन्तुं शक्येति प्रतिपादयितुम् अध्ययनस्य आवश्यकता वर्तते नितराम् ।
अध्ययनस्योद्देश्यानि (Aims of Study)
हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरे रेखीयाभिक्रमस्य प्रभावपरिशीलनम् ।
हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरे रेखीयाभिक्रम-पाठ्यक्रमः कारकाधिगमं प्रभावयति न वा इति परीक्षणम् ।
हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरे स्वाध्यायेन छात्रेषु जायमानायाः अवबोधशक्तेः अध्ययनम् ।
उच्चमाध्यमिकस्तरीयच्छात्रेषु कारकाधिगमार्थं रेखीयाभिक्रमाणां निर्माणम् ।
उच्चमाध्यमिकस्तरे कारकाधिगमार्थं निर्मितानां रेखीयाभिक्रमाणां प्रामाणिकतासम्पादनम् ।
उच्चमाध्यमिकस्तरे कारकाधिगमे लिङ्गमिति चरस्य प्रभावपरिशीलनम् ।
उच्चमाध्यमिकस्तरे कारकाणामधिगमे शालाप्रकारः इति चरस्य प्रभावपरिशीलनम् ।
हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरच्छात्रेषु कारकाधिगमे प्रान्तीयता (ग्रामीणनागर) इति चरस्य प्रभावपरिशीलनम् ।
अध्ययनस्य प्राक्कल्पना ( Hypothesis of Study)
हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरच्छात्रेषु कारकाणामधिगमे रेखीयाभिक्रमिताधिगमसामग्र्याः प्रभावः न स्यात् ।
हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ-उच्चमाध्यमिकस्तरे कारकाणामधिगमे लिङ्गमितिचरस्य प्रभावः न स्यात् ।
हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ- उच्चमाध्यमिकस्तरे कारकाणामधिगमे शालाप्रकारः इति चरस्य प्रभावः न स्यात् ।
हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ- उच्चमाध्यमिकस्तरच्छात्रेषु कारकाधिगमे प्रान्तीयता (ग्रामीणनगर) इति चरस्य प्रभावः न स्यात् ।
हिमाचलप्रदेशस्य काङ्गडाजनपदस्थ- उच्चमाध्यमिकस्तरच्छात्रेषु कारकाधिगमे स्मृति-अवबोध-चिन्तनस्तरेषु पारम्परिकस्वाध्याय-अभिक्रमिताधिगमसामग्र्योः प्रभावे भेदः न स्यात् ।
अध्ययनस्य सीमाङ्कनम् (Limitations of Study)
करिष्यमाणेऽस्मिन् अनुसन्धानकार्ये क्षेत्रविषयबहुलतां च मनसि निधाय विस्ताराधिक्यम् अनाचरय्य विषयस्य अध्ययनाय क्षेत्रसीमा अर्थात् परिमितिः काचिद् निर्धारिता वर्तते -
1. प्रस्तुताध्ययने कारकाणामधिगमाय चित्तः रेखीयाभिक्रमप्रविधिः उच्चमाध्यमिकस्तरच्छात्रेषु एव प्रयुक्तो भविष्यति ।
2.उच्चमाध्यमिकस्तरे नवमी-दशमीकक्षयोः अधीयानाच्छात्राः एव अध्ययनाय ग्रहिष्यन्ते ।
3.अध्ययनाय विविधपाठ्यक्रमाधारिताः उच्चमाध्यमिकपाठशालाः एव स्वीकृताः भविष्यन्ति ।
4.सर्वकारेणानुदानिता तथा च अनुदानेतरोच्च-माध्यमशालाश्च प्रयोगार्थं स्वीकृताः भविष्यन्ति ।
शोधविधिः(Method of Research) प्रस्तुतशोधकर्मणि तस्य प्रकृतिम् आवश्यकतां क्षेत्रं च मनसि निधाय अस्मिन् विषये प्रयोगात्मकविधेः एव प्रयोगः भविष्यति ।
अध्ययनस्य न्यादर्शः (Sample of Study)
समयस्य धनस्य मानवशक्तेः साधनानाञ्च सदुपयोगितायाः प्रवर्तकः परिगण्यते न्यादर्शः । वैज्ञानिकाध्ययने न्यादर्शेण विना समस्यानां समाधानं भवितुं न अर्हति । अतः न्यादर्शानाम् अनुसन्धानकर्मणि विशिष्य शैक्षिकानुसन्धाने अन्यतमा भूमिका वर्तते ।
राज्यशः भारतवर्षे शिक्षाजगति माध्यमिकशिक्षायां विविधता परिदृश्यते । अनुसन्धात्रा शोधाध्ययनाय चित्ते हिमाचलप्रदेशे माध्यमिकस्तरभेदानां विवरणमिदमित्थम्प्रकारेण वर्तते-
षष्ठीतः अष्टमीकक्ष्यापर्यन्तम् - माध्यमिकस्तरः
षष्ठीतः दशमीकक्ष्यापर्यन्तम् - उच्चमाध्यमिकस्तरः
षष्ठीतः द्वादशीकक्ष्यापर्यन्तम् - वरिष्ठमाध्यमिकस्तरः
हिमाचलप्रदेशे काङ्गडाजनपदे षष्ठीतः दशमीकक्ष्यापर्यन्तम् उच्चमाध्यमिकविद्यालयानां संख्यात्मकं विवरणम् -
आहत्य (वर्ष-2012) उच्चमाध्यमिकविद्यालयाः 297
हिमाचलसर्वकारीया उ.मा.वि.(H.B.S.E) 65
केन्द्रिय-स्कूलशिक्षाबोर्ड उ.मा.वि.(C.B.S.E) 41
भारतीय-विद्यालय-शिक्षापरिषद् उ.मा.वि.(I.C.S.E) 3
निजी-उ.मा.वि.(PRIVATE) 188
शोधकर्त्रा शोधाध्ययनाय उच्चमाध्यमिकस्तरे द्वे (नवमी-दशमी) कक्ष्ये स्वीकृते स्तः । अत्र दशमीकक्ष्या बोर्डकक्ष्या वर्तते । तत्र अनुसन्धानाध्ययनाय पूर्णतः अवकाशः न प्राप्येत । अतः शोधाध्ययनाय चिकार्षीत् । शोधार्थी परीक्षणाय उच्चमाध्यमिकविद्यालयस्य द्विशतच्छात्रान् स्वीकरिष्यति । प्रायोगिकविधिना च छात्राणां परीक्षणं करिष्यति ।
न्यादर्शविवरणम् -
उ. मा. वि. नाम छात्रसङ्ख्या
बालकाः बालिकाः
हिमाचलसर्वकारीया उ.मा.वि.(H.B.S.E) 25 25
केन्द्रिय-स्कूलशिक्षाबोर्ड उ.मा.वि.(C.B.S.E) 25 25
भारतीय-विद्यालय-शिक्षापरिषद् उ.मा.वि.(I.C.S.E) 25 25
निजी उ.मा.वि.(PRIVATE) 25 25
एवं स्वीकृतानां न्यादर्शानामाधारेणैव शोधाध्ययनं सम्पत्स्यते ।
प्रयक्तोपकरणानि ( Tools to be used )
- रेखीयाभिक्रमयुतनिर्मिता कारकविषयिणी पाठ्यसामग्री ।
- पूर्वोत्तरपरीक्षापत्रे ।
प्रदत्तानां संकलनम् (Data Collection)
शोधकर्त्रा प्रश्नावल्या आधारेण प्रदत्तानामेकत्रीकरणम् एवञ्च संकलितरूपस्य विश्लेषणं करिष्यते ।
प्रदत्तानां विश्लेषणम् एवञ्च व्याख्या (Analysis of Data)
प्रस्तुतेऽस्मिन् शोधकार्ये शोधकर्ता प्रदत्तानां सांख्यिकीयविधिभिः विश्लेषणं व्याख्यां च करिष्यति।
प्रयुक्तसांख्यिकीयविधयः(Use of Statistical Method)
मध्यमानम् (Mean)
प्रामाणिकं विचलनम् (Standard Deviation)
टी.मूल्यपरीक्षणम् (T-Value)
स्तम्भाकृतयः (Histograms)
निष्कर्षः(Finding)प्रदत्तानां विश्लेषणस्याधारेण निर्दिष्टानां परिकल्पनानां परीक्षणं प्रवर्तयिष्यते । परीक्षणस्याधारेण परिपृष्ट्यादिविषयाणां परिज्ञानं भविष्यति । अस्याधारेण च शोधकर्त्रा शोधस्य निष्कर्षः निष्कासयिष्यते ।
शोधस्य प्रारूपम् (Design of Research)
प्रथमोऽध्यायः
1.1 प्रस्तावना
1.2 समस्याकथनम्
1.3 शोधस्यावश्यकता
1.4 शोधोद्देश्यानि
1.5 शोधप्राक्कल्पना
1.6 सीमाङ्कनम्
1.7 पारिभाषिकशब्दावली
द्वितीयोऽध्यायः
2.सम्बन्धितसाहित्यस्याध्ययनम् ।
तृतीयोऽध्यायः
3.1 शोधप्रविधिः
3.2 शोधन्यादर्शः
3.3 शोधोपकरणानि
3.4 प्रदत्तानां संकलनम्
चतुर्थोऽध्यायः
4.प्रदत्तानां सांख्यिकीयविधिभिः विश्लेषणं व्याख्या च ।
पञ्चमोऽध्यायः
5.1 शोधसारांशः
5.2 शोधनिष्कर्षः
5.3 शोधपरामर्शः
5.4 भाव्यानुसन्धानम्
सन्दर्भग्रन्थसूची
परिशिष्टम्
प्रश्नावली
कविता- हम नन्हे मुन्ने हो चाहे पर नहीं किसी से कम
![]() |
हम नन्हे मुन्ने हो चाहे पर नहीं किसी से कम|
आकाश तले जो फूल खिले वह फूल बनेंगे हम||
बादल के घेरे में|
कुहरे के घेरे में|
भयभीत नहीं होंगे,
घनघोर अंधेरे में|
हम दीपक भी हम सूरज भी तुम मत समझो शबनम|
अब जान गए यह नील गगन दिन-रात तपेंगे हम||1||
यह ऊंच-नीच क्या है?
यह जाति पात क्या है?
दीवार उठाने से,
तो साथ छूटता है|
आंधी में भी उड़ता रहता इंसाफ बना परचम|
इनकार करे संसार भले इंसान रहेंगे हम||2||
आवाज देश की है,
आशीष देश का है|
आदेश हमें हो तो,
यह शीश देश का है|
जिसके आगे बेकार रहें दुनिया के एटम बम|
विश्वास भरी एक फौज नई तैयार करेंगे हम||3||
हम नन्हे मुन्ने हो चाहे पर नहीं किसी से कम||*||